SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ अष्टत्रिंशोऽध्यायः .१६१ पातीह देशान्खलु शूर सेनान्गान्धारगङ्गायमुनान्तरालान् । जीवेदनूनां शतवर्षसंख्यां पश्चाद्वनान्ते समुपैति नाशम् ॥ ३९ ॥ ॥ इति हंसः ॥ शार्दूलप्रतिमाननो द्विपगतिः पीनोरुवक्षःस्थलो लम्बापीन सुवृत्तबाहुयुगलस्तत्तुल्यमानोच्छ्रयः । कामीकोमलसूक्ष्मरोमनिकरैः संरुद्धगण्डस्थलः प्राज्ञः पङ्कजगर्भपाणिचरणः सत्वाधिको योगवित् ॥४०॥ शङ्खासिंकुञ्जरगदाकुसुमेषुकेतुचक्राब्जलाङ्गलविचिह्नितपाणिपादः । यात्रागुरुद्विपमदप्रथमाम्बुसिक्तभूकुङ्कुमप्रतिमगन्धतनुः सुघोणः ॥४१ शास्त्रार्थ विद्धृतियुतः समसंगतभ्रुर्नागोपमो भवति चाथ निगूढगुह्यः । सत्कुक्षिधर्मनिरतः सुललाटशङ्खो धीरः स्थिरस्त्वसितकुञ्चितकेश भारः स्वतन्त्रः सर्वकार्येषु स्वर्जनप्रीणनक्षमी | भुज्यते विभवश्चास्य नित्यं मंत्रिजनैः परैः ॥ ४३ ॥ भारस्तुलायां तुलितो यदि स्याच्छ्रीमध्यदेशेष्वधिपस्तदासौ । यख्यादिपुष्ठैः सहितः सभद्रः सर्वत्र राजा शरदामशीतिः ॥ ४४ ॥ ॥ इति भद्रः ॥ ॥ इति कल्याणवर्मविरचितायां सारावल्यां पञ्चमहापुरुषलक्षणं नाम सप्तत्रिंशोऽध्यायः ॥ अष्टत्रिंशोऽध्यायः । विस्तरतो निर्दिष्टाः क्षितिपतियोगा विचित्रसंस्थानाः । भङ्गश्च भवति तेषां यथा तथा सम्प्रवक्ष्यामि ॥ १ ॥ कुजार्कजीवार्किभिरत्र नीचैर्द्वाभ्यां त्रिभिर्वैकतमे लिने | निशाकरे वृश्चिकराशिसंस्थे विशीर्यते राजकरो हि योगः ॥ २ ॥ अन्त्याष्टभादिभागे चरराश्यादिषु शशी यदा क्षीणः । एकेनापि न दृष्टो ग्रहेण भङ्गस्तदा नृपतेः ॥ ३ ॥ १ जीवेन्नवघ्नां दश. २ तोरण. ३ चाति, चापि ४ खजनं प्रति. ५ क्षमः. ६ अर्थि, मित्र. ७ कान्यकुब्जाधिपतिः ८ हस्त्यादि मुख्यैः. Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy