SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्रीः। श्रीगणेशाय नमः सारावली श्रीमत्कल्याणवर्मसूरिविरचिता । प्रथमोऽध्यायः । यस्योदये जगदिदं प्रतिबोधमेति मध्यस्थिते प्रसरति प्रकृतिक्रियासु । अस्तं गते स्वपिति चोच्छुसितैकात भावत्रये स जयति प्रकटप्रभावः ॥१॥ विस्तरकृतानि मुनिभिः परिहत्य पुरातनानि शास्त्राणि । होरातत्रं रचितं वराहमिहिरेण संक्षेपात् ॥ २॥ राशिदशवर्गभूपतियोगायुर्दायतो दॆशादीनाम् । विषयविभागं स्पष्टं कर्तुं न तु शक्यते यतस्तेन ॥३॥ अत एव विस्तरेभ्यो यवननरेन्द्रादिरचितशास्त्रेभ्यः । सकलमसारं त्यक्त्वा तेभ्यः सारं समुद्भियते ॥४॥ देवग्रामपुरप्रपोषणबलाद्ब्रह्माण्डसत्पञ्जरे कीर्तिहर्सविलासिनीव सहसा यस्येह भात्यातता। श्रीमद्व्याघ्रपदीश्वरो रचयति स्पष्टां स सारावली होराशास्त्रविनिर्मलीकृतमनाः कल्याणवर्मा कृती ॥५॥ होरातृष्णार्तानां शिष्याणां स्फुटतरार्थशिशिरजला । कल्याणवर्मशैलानदीव सारावली प्रसृता ॥ ६ ॥ इति कल्याणवर्मविरचितायां सारावल्यां शास्त्रावतारो नाम प्रथमोऽध्यायः ॥ १ मात्रं. २ भानुः स एष जयति. ३ परिगृख. ४ गोचरदशानाम्. ५ वक्ष्ये सारं समुद्धृत्य. ६ सिंहविलासिनीव. ७ भक्त्वा . Aho ! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy