SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशोऽध्यायः । बहुविषयपतिं ख्यातं नरेन्द्रसत्कारसत्कृतं चण्डम् | कुजबुधशुका भाग्ये कुर्वन्ति नरं सतां सत्यम् ॥ ७८ ॥ परवञ्चनासु निपुणं तमोधिकं सर्वशास्त्रमतिबाह्यम् । बुधभौमयमा नवमे कुर्युः परतर्कसंमूढम् ॥ ७९ ॥ बुधगुरुशुका भाग्ये जनयन्ति नरं सुरोपमं विशदम् । विख्यातं नरनाथं विद्वांसं धर्मशीलं च ॥ ८० ॥ शुक्रशनैश्चरशशिजा नवमस्था जातकं प्रकुर्वन्ति । मेवाविनं प्रकाशं सुरुचिरवाक्यं सुखोपेतम् ॥ ८१ ॥ शनिशुक्रामरगुरवो भाग्यगृहस्था नरं प्रकुर्वन्ति । प्रचुरान्नपानविभवं सुभगं सुखितं सुरूपं च ॥ ८२ ॥ ११९ The following combinations of planets taken four at a time are treated of in Slokas 83-108 to be found only, in the OL. MS. रविचन्द्रभौमशशिजा जन्मनि भाग्यर्क्षगा नरं कुर्युः । धनिनं विद्याकुशलं सुभगं नृपसंमतं चैव ॥ ८३ ॥ शुक्रेन्दुभौमरवयो मायाचतुरं स्वदारसन्तुष्टम् । जनयन्ति सदा भाग्ये पुरुषं बहुनीचकर्माणम् ॥ ८४ ॥ शशिसुरगुरुबुधरवयो जन्मनि भाग्यर्क्षमाश्रिताः कुर्युः । पुरुषं प्रधानमचलं नरेन्द्रपूज्यं तथा दृष्टम् ॥ ८५ ॥ चन्द्रबुधशुक्ररवयो धनेश्वरं धार्मिकं समृद्धं च । जनयन्ति नवमसंस्थाः पुरुषं प्रियवादिनं शान्तम् ॥ ८६ ॥ तरणिबुधचन्द्रसौरा जन्मनि नवमाश्रिता नरं कुर्युः । ॥ ८७ ॥ रवि गुरुबुधभूतनया जन्मनि नवमे नरं प्रकुर्वन्ति । देवपितृपूजनपरं समृद्धदारं गुणोपेतम् ॥ ८८ ॥ शुक्रज्ञभौमसूर्या नवमे जनयन्ति निष्ठुरं सुभगम् । साहसनिरतं विधनं रिपुपक्षक्षपितविभवं च ॥ ८९ ॥ रविसौरिचान्द्रिभौमा नवमे यस्येह जायमानस्य । स भवति परदाररतो विनष्टकोशः सदा दीनः ॥ ९० ॥ Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy