SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सारावली। द्वेष्यः पतितः क्षुद्रो नयनरुगार्तोऽलसो भवेद्विकलः । चन्द्रे तथान्यजातो द्वादशगे नित्यपरिभूतः ॥ २५ ॥ ॥ इति चन्द्रः ॥ क्रूरः साहसनिरतः स्तब्धोऽल्पायुः स्वमानशौर्ययुतः । क्षतगात्रः सुशरीरो वक्र लग्नाश्रिते चपलः ॥ २६ ॥ अधनः कदशनतुष्टः पुरुषो विकृताननो धनस्थाने । कुजनाश्रयश्च रुधिरे भवति नरो विद्यया रहितः ॥२७॥ शूरो भवत्यधृष्यो भ्रातृवियुक्तो मुदान्वितः पुरुषः । भूपुत्रे सहजस्थे समस्तगुणभाजनं ख्यातः ॥ २८॥ बन्धुपरिच्छदरहितो भवति चतुर्थेऽथ वाहनविहीनः । अतिदुःखैः संतप्तः परगृहवासी कुजे पुरुषः ॥ २९॥ सौम्यार्थपुत्रमित्रश्चलमतिरपि पञ्चमे कुजे भवति । पिशुनोऽनर्थप्रायः खलश्च विकलो नरो नीचः ॥ ३० ॥ प्रेबलमदनोदराग्निः सुशरीरो व्यायतो बली षष्ठे । रुधिरे सम्भवति नरः स्वबन्धुविजयी प्रधानश्च ॥३१॥ मृतदारो रोगार्तोऽमार्गरतो भवति दुःखितः पापः । श्रीरहितः सन्तप्तः शुष्कतनुर्भवति सप्तमे भौमे ॥ ३२ ॥ व्याधिप्रायोऽल्पायुः कुशरीरो नीचकर्मकर्ता च । निधनस्थे क्षितितनये भवति पुमान् शोकसन्तप्तः ॥ ३३॥ अकुशलकर्मा द्वेष्यः प्राणिवधपरो भवेन्नवमसंस्थे । धर्मरहितोऽतिपापो नरेन्द्रकृतगौरवो रुधिरे ॥ ३४ ॥ कर्मोद्युक्तो दशमे शूरो धृष्यः प्रधानजनसेवी । सुतसौख्ययुतो रुधिरे प्रतापबहुलः पुमान् भवति ॥ ३५॥ एकादशगे धनवान् प्रियसुखभागी तथा भवेच्छूरः। धनधान्यसुतैः सहितः क्षितितनये विगतशोकश्च ॥ ३६ ॥ नयनविकारी पतितो जायाघ्नः सूचकश्च रौद्रश्च । द्वादशगे परिभूतो बन्धनभाक् भवति भूपुत्रे ॥ ३७॥ ॥ इति कुजः ॥ १ सौख्यार्थमित्ररहितश्चञ्चलमतिरपि च पञ्चमे रुधिरे. २ प्रबलोदराग्निपुंस्त्वः. ३ स्त्रीरहितो विगततनुः सप्तमभवनस्थिते भौमे. Aho ! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy