SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ शान-प्रदीपिका। बुधादित्यौ भग्नङ्गौ चंद्रः शृङ्गविवर्जितः । तीक्ष्णशृङ्गः कुजो दीर्घशृङ्गो जीवकवी तथा ॥३॥ शनिराहू भग्नशृङ्गो शृङ्गभेद उदाहृतः ।। वृषसिंहालिकुंभाश्च तिष्ठन्ति स्थिरराशयः ॥४०॥ कर्किनक्रतुलामेषाश्चरन्ति चरराशयः । युग्मकन्याधनुर्मीनराशय उभयराशयः ॥४॥ धनुषौ वनप्रांते कन्यकामिथुनं पुरे । हरिगिरौ तुलामीनमकराः सलिलेषु च ॥४२॥ नद्यां कुलीरः कुल्यायां वृषकुंभौ पयोघटे । वृश्चिकः कूपसलिले राशीनां स्थितिरीरिता ॥४३॥ बनकेदारकोद्यानकुल्याद्रिवनभूमयः ।। आपगातीरसद्वापी तडाकाः सरितस्तथा ॥४४॥ जलकुम्भश्च कूपश्च नष्टद्रव्यादिसूचकाः । घटकन्यायुग्मतुला ग्रामेऽजालिधनुर्हरिः ॥४॥ वने देशे कुलीरोक्षौ नक्रमीनौ जलस्थितौ । विपिने शनिभौमारा भृगुचंद्रौ जले स्थितौ ॥४६॥ बुधजीवौ तु नगरे नष्टद्रव्यादिसूचकौ । भौमो भूमिर्जले काव्यशशिनौ बुधभोगिनौ ॥४७॥ निष्कुटव रन्ध्रञ्च गुरुभास्करयोर्नभः । मन्दस्य वनभूमिश्च बलोत्तरखगस्थितौ ॥४८॥ सूर्याकरिबलं भूमौ गुरुशुक्रवलन्तु खे । चन्द्रसौम्यबलं मध्ये कैश्विदेवमुदाहृतम् ॥४॥ निशादिवससन्ध्याश्च भानुयुग्राशिमादितः । चरराशिवशादेवमिति केचित्यचक्षते ॥५०॥ प्रहेषु बलवान् यस्तु तद्वशात्कालमीरयेत् । शनेर्बर्ष तदर्धस्याद्भानोमासद्वयं विदुः ॥५१॥ शुक्रस्य पक्षो जीवस्य मासो भौमस्य वोसरः। इन्दोमहर्तमित्युक्त ग्रहाणां बलतो वदेत् ॥५२॥ एतेषां घटिका प्रोक्ता उच्चस्थानजुषां क्रमात् । स्वगृहेषु दिनं प्रोक्त मित्रभे मासमादिशेत् ॥५३॥ शशुस्थानेषु नीचेषु वत्सरानाहुरुत्तमान् । Aho ! Shrutgyanam
SR No.009876
Book TitleGyan Pradipika tatha Samudrik Shastram
Original Sutra AuthorN/A
AuthorRamvyas Pandey
PublisherJain Siddhant Bhavan Aara
Publication Year1934
Total Pages168
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy