SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीवीतरागाय नमः ज्ञान- प्रदीपिका ( केरल प्रश्नग्रन्थः ) अथ उपोद्घातकाण्डः श्रीमद्वीरजिनाधीशं सर्वज्ञ त्रिजगद्गुरुम् । प्रातिहार्याष्टकोपेतं प्रकृष्टं प्रणमाम्यहम् ॥ १ ॥ स्थित्युत्पत्तित्र्ययात्मीयां भारतीमाती सतीम् । अतिपूतामद्वितीयामहर्निशमभिष्टुवे ||२|| ज्ञानप्रदीपकं नाम शास्त्र लोकोपकारकम् । प्रश्नादर्श प्रवक्ष्यामि सर्वशास्त्रानुसारतः ||३|| भूतं भव्यं वर्त्तमानं शुभाशुभनिरीक्षणम् । पञ्चप्रकारमार्गञ्च चतुष्क न्द्रबलाबलम् ||४|| आरूढं त्रवर्गञ्चाभ्युदयादिवलाबलम् । क्षेत्र दृष्टिं नरं नारी युग्मरूपं च वर्णकम् ॥ ५ ॥ मृगादिनररूपाणि किरणान्योजनानि च । आयूरसोदयाद्यच परीक्ष्य कथयेद्बुधः ॥ ६ ॥ चरस्थिरोभयान् राशीन् तत्प्रवेशस्थलानि च । निशादिवससन्ध्याश्च कालदेशस्वभावकान् ॥ ७ ॥ धातु मूलं च जीवं च नम्रं मुष्टिश्च चिन्तनम् । लाभालाभौ गदं मृत्यु भुक्तं स्वप्नञ्च शाकुनम् ॥८॥ वैवाहिक विचारं च कामचिंतनमेव च । जातकर्मायुधं शल्यं कूपं सेनागमं तथा ॥ ६ ॥ सरिदागमनं वृष्टिमर्थ्यनौसिद्धिमादितः । ser कथयिष्यामि शास्त्र ज्ञानप्रदीपके ॥ १० ॥ इति उपोद्घातकाण्डः *-- Aho! Shrutgyanam
SR No.009876
Book TitleGyan Pradipika tatha Samudrik Shastram
Original Sutra AuthorN/A
AuthorRamvyas Pandey
PublisherJain Siddhant Bhavan Aara
Publication Year1934
Total Pages168
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy