SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ फक्किकारत्नमञ्जूषायाम्-- स्याऽप्राप्तिरित्याशयेनाह-अड्यन्तत्वान्न सुलोपः, अतिलक्ष्मीरिति । (कृदिका. रादक्तिनः ) इति डीषि तु मुलोप इष्ट एव अत एव, लक्ष्मी लक्ष्मीहरिप्रियेत्युपपन्नमित्यलम् कुमारीति । नन्वत्र क्यचोऽकारस्य स्थानिवद्भावादच्परकत्वेन यणापत्तिर्दुरा, न च पदान्तविधौ तनिषेध इति बाच्यम् । 'नः क्ये' इत्यनेन नान्तस्यैव पदत्वविधानादिहा. तथात्वेन निषेधाऽप्रवृत्तेः । न च ( को लुप्तं न स्थानिवदि ) त्यनेन स्थानिवत्त्वनिषेधान्न यणापत्तिरिति वाच्यम् । सख्युर्गोमान् पदत्वञ्च को लुप्तमिति दर्शनादित्यभियुक्तव्यवहा. रबलेनैतेष्वेष कौ लुप्तन्न स्थानिवदित्यस्य प्रवृत्तेरिति चेन्न । लुनिरित्यादिभाष्योदाहरणोप.. पत्त्यर्थमन्यत्राऽप्युक्तनिषेधप्रवृत्त्यङ्गीकारादिति भावः ।। ___ ननु 'अचि नु धात्विाति सूत्रादनुवृत्तस्य धातुपदस्याऽऽवृत्त्योभयोविशेषणत्वमङ्ग स्य संयोगस्य च तत्र संयोगविशेषणत्वे फलमाह-धातुना संयोगस्य विशेषणादिति तस्याङ्गविशेषणत्वफलन्तु हरिं, हरी हरीनित्यादिसिद्धिः, अन्यथाऽङ्गस्य धात्ववयवसंयोगपूर्वभिन्नेबर्णान्तत्वेन प्रध्यं प्रध्य इत्यादाविव पूर्वरूपं पूर्वसवर्णदीर्घव वाधित्वा यणापत्ति स्यात् । यदि चाऽसंयोगपूर्वस्येत्यस्य धात्ववयवसंयोगभिन्नपूर्व इत्यर्थस्तद्भिन्नस्य च धात्ववयवस्यैव ग्रहणं तदा नोक्तस्थले दोषः, अत एव च उदियावित्यादौ न दोष इति भावः ।। ___ ननु गतिकारकेतरपूर्वपदकस्यैव यणो निषेधात्तत्पूर्वपदस्य सूक्तकार्य्यस्येष्टत्वेन दुधियो वृश्चिकभिय इत्यादौ गति कारकपूर्वत्वेन कुतो न यणित्याशइते-कथन्तीति । समा. धत्ते-दुःस्थिता धीर्येषामिति । दुरित्यस्य दुःशब्दोपात्तदुष्टत्वस्येत्यर्थः । धीशब्द प्रतीत्यस्य धीशब्दार्थ प्रतीत्यर्थः । यतक्रियायुक्ता इत्यस्य यस्य धातोर्वाच्यया क्रियया युक्ता इत्यर्थः । एवञ्च यद्धातुवाच्यक्रियया युक्ताः प्रादयस्तद्धातुवाच्यक्रियाम्प्रत्येव तेषां गतित्वमिति फलितम् । तथा च प्रकृते दुरित्यस्य स्थितिक्रियाम्प्रत्येव गतित्वेन धीशब्दा. प्रति तत्त्वाभावान पूर्वत्र यणापत्तिः । एवं बुद्धि कृतमपादानत्वमादाय "ध्रुवमपायेऽपादा. नमित्यनेनैवेष्टसिद्धिमासाद्य 'भीत्राऽर्थानामि त्यस्य भाष्यकृता प्रत्यख्यातत्वेनाऽसच्चात्ता शाऽपादानत्वाऽविवक्षणेन कारकपूर्वत्वाभावात्परत्राऽपि नोक्ताऽऽपत्तिः, तत्र सम्बन्धसामान्ये षष्ठया समासः, अथवा बृश्चिकसम्बन्धिनी भीः वृश्चिकभीरित्युत्तरपदलोपसमासो बोध्य इति भावः ।। ननु सखायमिच्छति सखीयति ततः विपि 'अतो लोपः' इत्यल्लोपे 'लोपो व्योचली ति यलोपे च सखीरित्यस्य सिद्धिः, न च यलोपस्य स्थानिवत्वेन स न स्यादिति वाच्यम् । यलोपे तन्निधात् । न च 'वेरपृक्ते' इत्यनेन विपि लोपे बल्परत्वाभावेन यलोप एव कथमिति वाच्यम् । उक्तसूत्रविहितलोपात्प्राग्बलिलोपस्यैवेष्टत्वात् । नचाऽल्लोपस्य स्थानिवत्वादच्परत्वेन एरनेकाच' इति यणादेशो दुर्वारः, नचाऽन्तर्वतिन्या विभक्त्या सखिशब्दस्य पदत्बेन 'न पदान्ते ति सूत्रेण पदान्तविधौ यणि कर्तव्ये स्थानिवत्वनिषेधानोक्तापत्ति. लेशोऽपीति बाच्यम् । 'नः क्ये' इति नियमेन क्यचि नान्तस्यैव पदत्वादिहोक्तनिषेधाs. प्रवृत्या स्थानिवत्वस्य दुर्वास्तयोक्तापत्तेस्तादवस्थ्यात् परपदस्थाऽजादेशस्यैव तेन स्था. निवत्वनिषेधाच्च । न चोऽन्तरङ्गपरिभाषयाऽन्तरङ्गे यणि कर्त्तव्ये विबपेक्षत्वेन बहिरङ्गक्य Aho ! Shrutgyanam
SR No.009875
Book TitleFakkika Ratna Manjusha
Original Sutra AuthorN/A
AuthorKanaklal Thakur
PublisherHarikrishna Nibandh Bhawan Benaras
Publication Year1932
Total Pages280
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy