SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ हलन्तनपुंसकलिङ्गप्रकरणम् । ऽभावात् । न च नकारोच्चारणसामर्थ्यलब्धेन नकारान्ताऽनुकरणेन नान्तस्याऽहनशब्दस्य रितिव्याख्यानान्नलोपो न स्यादिति वाच्यम् । दीर्घाहो निदाघेत्यादौ प्रवृत्या भ्यामादौ व्यावृत्त्या च नकारोच्चारणस्य चरितार्थत्वेन सामर्थ्य विरहादुक्तव्याख्यानाऽसम्भवेन नलोपबाधकत्वाऽसम्भवादिति भावः । श्रावृत्येति । अहन् सुत्रस्याऽऽवृत्त्या सूत्रद्वयस्य जायमानत्वादेकेन रुत्वविधानमपरेण नलोपबाध इति भावः । आवृत्ती (रूपरा. त्रिर-थन्तरेषु रुत्वं वाच्यम् )हति वार्तिकमेव प्रमाणमन्यथा नलोपेऽकारस्य रेफाऽऽदेशेनैव सिद्धौ वार्तिकमिदं व्यर्थ मेवेति । न च सम्बुद्धिविषये 'न डि सम्बुद्धयोरिति निषेधेन नलोपाऽभावात्तत्राऽस्य चारितार्थ्येन ज्ञापकत्वं न सम्भवतीति वाच्यम् । “सत्यपि सम्भवे बाधनं भवतीति भाष्येण सम्बुद्धिविषयेऽपि नलोपस्य प्राप्तिमात्रेण रस्व-रुत्वयो (यन नाप्राप्ति) न्यायेन तदपवादत्वादुक्तवार्तिकस्य वैयर्थेन ज्ञापकत्वसम्भवात् । अत एव, "अपवादो रुनलोपं बाधिष्यत' इत्युक्तम्भाष्ये इति दिक् ॥ ननु अहन्सूत्रे पदाधिकारात्तं प्रत्यहन्शब्दस्य विशेषणत्वेन 'येन विधिरित्यनेन तदन्तविधावहन्शब्दाऽन्तस्याऽपि रुरित्यथें दो_हन्शब्देऽपि रुत्वमित्यत आह-तदन्तस्याऽपि रुत्व-रत्व इति । न च (१)(ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति ) इति परिभाषया तदन्तविधिनिषेधात्कथयत्र तदन्तबिधिरिति वाच्यम् । उक्तपरिभाषायाः प्रत्ययविधिविषयकत्वेनाऽत्राऽप्रवृत्तेः । न च तदन्तेऽपि रुत्वविधानादोर्घाऽहावित्यादावष्य, न्तर्वतिविभत्तया पदत्वाद्त्वाऽऽपत्तिरिति वाच्यम् । उत्तरपदत्वे चेति निषेधेनाऽपदत्वादताऽऽपत्तेश्योगादिति भावः ॥ इह हल्ङ्यादिलोप इति। दीर्घानिमित्तस्य सोहल्ङ्यादिसूत्रेण पश्चाद्विनाशसम्भवात (कृतव्यूह) परिभाषया दीर्घात्प्राक् हल्ड्यादिलोप एवेति भावः । वस्तुतस्तु सोलापेऽपि प्रत्ययलक्षणेन मुद्धया दीर्घनिमित्तस्य सोविनाशाऽभावादुक्तपरिभाषाऽप्रवृत्तेस्तस्या अनि. त्यत्वादसवाञ्च परत्वाद्दीर्घ एव, अत एव परत्वादुपधादीर्घ इत्युक्तिः सङ्गच्छत इत्यलम् ॥ तस्याऽसिद्धत्वान्नान्तलक्षण उपधादीर्घ इति । ननु रुत्वात्प्राक् परत्वाद्दीर्घप्र. वृत्तौ कथं मुलोक्तसङ्गतिरिति चेन्न । (अकृतव्यूह) परिभाषया ततः पूर्व दोर्धाऽप्रवृत्तः । न च तस्या असत्वादुक्ताऽऽपत्तिस्तदवस्थैवेति वाच्यम् । उक्तपरिभाषाऽसत्वाऽभ्युपगमे ह. ल्यादि लोपात्प्राक परत्वाद्दीर्घस्यैव प्रबृत्तावेतत्पंक्त्यसंगतेः स्पष्टत्वादिति भावः ।। . असृजः पदान्ते कुत्वमिति । अयम्भावः, असृजशब्दस्य पदान्तविषये कुत्वं भवति । यद्यपीह क्विष्प्रत्ययो न तु क्विन् तथापि कुत्वमेव, 'क्विन्प्रत्ययस्य कुरित्यत्र विघन्यतः कुरिति वक्तव्ये प्रत्ययग्रहणसामथ्र्येनाऽत्र वीप्सागबहुव्रीहिलाभस्तथा च यस्मा. (१) *ग्रहणवतेति । ग्रहणवत्प्रातिपदिकप्रयोज्यं तदन्तकर्मकं ग्रहणं नेति तदर्थः । ग्रहणवत्प्रातिपदिकप्रयोज्यं तदन्ते विधानन्न भवतीति यावत्। अत्र ज्ञापकं सपूर्वाच्चेति सूत्रमेव, तथा हि पूर्वादिनिरित्यत्र तदन्तविविना पूर्वशब्दान्तादिनिरित्यर्थे सपूर्वादपि पर्बश. ब्दादिनिप्रत्ययोपपत्तौ पृथक् सपूर्वाच्चेति सूत्रं व्यर्थ सत्परिभाषां ज्ञापयति, ज्ञापितायाम. स्यां तु परिभाषया तदन्तविधिनिषेधात्सपूर्वात्पूर्वशब्दात् पूर्वादिनिरित्यनेन प्रत्ययानुपपत्ती तदर्थ सपूर्वाच्चेति सूत्रं स्वांशे चरितार्थमिति भावः । ८ फ०र० Aho ! Shrutgyanam
SR No.009875
Book TitleFakkika Ratna Manjusha
Original Sutra AuthorN/A
AuthorKanaklal Thakur
PublisherHarikrishna Nibandh Bhawan Benaras
Publication Year1932
Total Pages280
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy