SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रस्तावः । ततश्च पूजितो हृष्टचेतसा स महीभुजा । चाण्डालानां समस्तानामधिपश्च विनिर्मितः ॥ ६२ ॥ अन्येन खपचेनाऽयं मम्मणो विनिपातितः । ३७३ यमपाशश्च मृत्वान्ते बभूव त्रिदशोत्तमः ः ॥ ६३ ॥ ॥ प्राणातिपातविरतिविषये यमपाशमातङ्गकथानकम् ॥ द्वितीयं च व्रतं नाम कन्यालोकादि पञ्चधा । अलोक भाषणे दोषो भद्रस्येव प्रजायते ॥ ६४ ॥ चितिप्रतिष्ठितपुरे वणिजौ धनवर्जितौ । दुष्टबुद्धिसुबुद्धयाख्यावभूतां 'विदितौ जने ॥ ६५ ॥ प्रपन्नसौहृदावेतौ किञ्चिदादाय पण्यकम् । देशान्तरप्रचलितावर्थोपार्जनहेतवे ॥ ६६ ॥ प्राप्तौ च क्रमयोगेण पुरे क्वाऽपि पुरातने । दिनानि कतिचित्तत्र तस्यतुर्लाभकाङ्क्षिणौ ॥ ६७ ॥ देहचिन्ताकृते क्वापि खण्डीकसि सुबुद्धिना । उपविष्टेन संप्राप्तं निधानं किञ्चिदन्यदा ॥ ६८ ॥ तद्दुष्टबुद्धिना सार्धं गृहीत्वाऽसौ न्यभालयत् । यावत्तावच्च दोनारसहस्रं ममजायत ॥ ६८ ॥ कृतकृत्यौ ततश्चैतावागतौ नगरं निजम् । तवेदं मन्त्रयामास दुष्टः सह सुबुद्धिना ॥ ७० ॥ अर्धमधं विभज्येदं गृहीवश्चेदनं सखे ! । तदा संभावना गुर्वी भविष्यत्यावयोर्जने ॥ ७१ ॥ ( १ ) ङ जिनशासने ।
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy