SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ३३८ श्रीशान्तिनाथचरित्रे शातकुम्भमयाः कुम्भा रोप्या मृन्मय कास्तथा । अन्यां च मानसामग्री सुवस्त्राभरणानि च ॥ ८६ ॥ ऊचे च सर्वदा स्वामिन्त्राज्ञाकारिण्यहं तव । इत्यत्वा साऽपि स्वस्थानं विसृष्टा विभुना ययौ ॥ ७ ॥ उत्तीय चर्मरत्नेन सिन्धुं सेनापतिस्ततः । विभूपान्ते साधयित्वा प्रतीचौखण्डमागतः ॥ १८ ॥ कतपूजं ततश्चक्रं वैताब्यस्यागमत्तले । वैताब्याट्रिकुमारश्च वशवयंभवत् प्रभोः ॥ ६ ॥ गुहाखण्ड प्रपाताया हारमुवाटितं स्वयम् । कृतमालसुरश्चाज्ञां जगतः प्रपत्रवान् ॥ १० ॥ तत्रोन्मग्नाऽथ निर्मग्ना हे नद्यावतिदुस्तरे। चकार वर्धकिः सद्यः पद्यां तत्र मनोहराम् ॥ १ ॥ गुहायां प्रविवेशाऽथ प्रभुः सैन्यसमन्वित: । काकिन्याऽथ तमो हतुं विदधे मण्डलानि च ॥ २ ॥ पञ्चाशद्योजनान्ये कोनपञ्चाशच्च मण्डली । एवं जज्ञे ससैन्योऽथ परतो निरगाटु बहिः ॥ ३ ॥ तत्रापातचिलाताख्यान् म्लेच्छान् भरतचक्रिवत् । वशे चकार तरसा महापुण्यप्रभावयुक् ॥ ४ ॥ सेनान्या साधयित्वाऽथ द्वितीयं सिन्धुनिष्कुटम् । हिमवत्पर्वतस्याधिदेवं साधयति स्म सः ॥ ५ ॥ (१) ङ ज विभुः।
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy