SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रस्तावः । तस्यां पुर्यामयं कल्पः शाकिनीनां भयेन यत् । उाय्यन्ते गोपुराणि भानुमत्युदिते सति ॥ ३५ ॥ वत्सराजस्ततो दध्यौ पुर्खा बाह्यग्गृहेषु न । वसनीयं यतो गन्धः शक्यो रोडुं न चान्दनः ॥ ३६ ॥ क्व गम्येयं मया रात्रिः शीते पतति दारुणे ? । हुं ज्ञातं वा तत्र देवकुलिकायां व्रजाम्यहम् ॥ ३७ ॥ इति ध्यात्वा द्रुतं तत्र गत्वा चैकत्र पादपे । कावाकृतिं चावलम्बाऽविशद्देवकुलान्तरे ॥ ३८ ॥ तत्कपाटे पिधायाऽथ मुक्का पार्श्वे कुठारिकाम् । तत्रैकदेशे सुष्वाप निर्भयो वीरसेनजः ॥ ३८ ॥ अत्रान्तरे च संजातं रात्रिमध्ये यदद्भुतम् । वत्सस्य तस्थुषस्तत्त्र तदितः श्रूयतां जनाः ! ॥ ४० ॥ अतिरम्यविमानस्थो वैताढ्यवरपर्वतात् । समाययौ खेचरौणां सार्थोऽस्मिन् यक्षमन्दिरे ॥ ४१ ॥ विहितस्फारशृङ्गारा गीतनृत्यसमुद्यताः । तद्दाह्यमण्डपगता जल्पन्ति स्मेति ता मिथः ॥ ४२ ॥ चित्रलेखे ! प्रवीणे ! त्वं वीणां वादय सुन्दराम् । 'हले ! मदनिके ! तालावादनं त्वं पुनः कुरु ॥ ४३ ॥ पटिष्ठे ! पटहं सज्जं विधेहि वेगवत् परम् । मृदङ्गमङ्ग प्रगुणं क्षिप्रं पवनिके! तनुं ॥ ४४॥ · ३२ (१) ङ ज ध हला । २८६ BL 1373 545A6 1909 V.4.
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy