SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रस्तावः। ३२५ जिनेन्द्रप्रतिमास्तत्र तासां चाष्टाह्निकोत्सवम् । धर्मकृत्यं तथान्यच्च गृहियोग्यं चकार सः ॥ ८ ॥ आचार्यः सोऽन्यदा तत्र पुनरेव समाययो। ववन्दे च नरेन्द्रोऽमौ गत्वा तच्चरणद्दयम् ॥ १० ॥ पप्रच्छ चान्यदा पूर्वभवे किं विहितं मया ? । यन्मेऽनुपदमायाता विपदः सम्पदोऽभवन् ॥ ११ ॥ सोऽवदत् श्रूयतां राजन् ! जम्बूद्दीपस्य भारते । शूरो नाम नृपोऽभूस्त्वं वसन्तपुरपत्तने ॥ १२ ॥ स शूरः सरलात्मा च क्षमी दाक्षिण्यसंयुतः । खभावेनैव निर्लोभो देवगुवर्चने रतः ॥ १३ ॥ दोनादिभ्यो वितीर्ण स्वः प्रजापालनतत्परः । युक्तश्चतुर्विधनीत्या न्यायवान् दोषवर्जितः ॥ १४ ॥ स एवं गुणसंयुक्तो विशेषाच्छोलशोभितः ।। अतिप्रसक्तो दाने च पालयामास मेदिनीम् ॥ १५ ॥ सकलान्तःपुरीमध्ये तस्याऽभूदग्रवल्लभा । शूरवेगाभिधानेन विद्याधरकुलोद्भवा ॥ १६ ॥ उदूढा चापरा तेन रतिचूला नृपात्मजा । तस्यामासक्त चित्तोऽन्याः परितत्याज स प्रियाः ॥ १७ ॥ अतः परं समाख्यातं सर्व देवतया तव । गन्धवाहगतिसुते यया त्वं परिणायितः ॥ १८ ॥ (१) ङ ञ द -यीम् ।
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy