SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रस्तावः । तस्य भक्त्या च शक्त्या च प्रसन्नः पृथिवीपतिः । किञ्चिञ्च विफलारम्भो 'होमांश्चागानिजं गृहम् ॥ ८० ॥ दध्यौ चेति मया पापमस्य दाररिरंसया । बहुपार्जितमात्मा च लोकमध्ये लघूकृतः ॥ ८१ ॥ ध्यात्वेति सुन्दरीं कन्यां दत्त्वा तस्मै स भूपतिः । राज्यं च लोकसम्मत्या तापसः समजायत ॥ ८२ ॥ साधयित्वा बहून् देशान् पुण्यवान् दृढविक्रमः । महाराजपदं प्राप्तो वीरसेननृपात्मजः ॥ ८३ ॥ अथान्येद्युः पुमानेकः प्रणम्य जगतीपतिम् । इति विज्ञपयामास लेखढौकनपूर्वकम् ॥ ८४ ॥ चितिप्रतिष्ठिताद् देव ! नगरादागतोऽस्माहम् । भवविज्ञप्तिकालेखस्तत्पौरैः प्रेषितो ह्ययम् ॥ ८५ ॥ * लेखं समर्पयामास स्वपारिग्रहिकस्य तम् । उन्मुद्रा वाचयामास सोऽप्येवं नृपतेः पुरः ॥ ८६ ॥ तद्यथा स्वस्ति पुय्या मुज्जयिन्यां वत्सराजं महीभुजम् । चितिप्रतिष्ठितात् पौरा नत्वा विज्ञपयन्त्यदः ॥ ८७ ॥ यथा ग्रौमार्दितो मेघं शीतार्तोऽग्निं जनः स्मरेत् । पीडिता देवराजेन स्मरामस्त्वां तथा वयम् ॥ ८८ ॥ (१) दना । (२) ङ ञ लेखं तमर्पयामास स्वपारिग्रहिकस्य सः । _३२३
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy