SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रस्ताव:1 ३१५ वत्सराजोऽवदद् देव ! पूज्योऽसि मम सर्वथा । खामिन्नुपहास पदमित्यादेशं ददासि किम् ? ॥ ५ ॥ रसवत्यस्ति नो वेति का ते चिन्ता महीपते ! 1 मय्यम्य सम्भावनां त्वं किं विभावयसि प्रभो ! ? ॥ ६ ॥ सद्दाक्योत्साहितो राजा स्वपरीवारसंयुतः । तद्देश्मनि गतोऽपश्यत्तत्र रम्यं जनाश्रयम् ॥ ७ ॥ तं दृष्ट्वाऽचिन्तयच्चैवमस्य वृत्तमलौकिकम् । येनायं मण्डपश्चारुरधुनैव विनिर्मितः ॥ ८॥ यथायोग्यं कल्पितेषु तत्र रम्याऽऽसनेषु ते । निर्दिष्टेष्वमुनेवाऽथ निषेदुः पार्थिवादयः ॥ ॥ स्वर्ण रुप्यरत्नमयान्युरुस्थालानि तत्क्षणात् । ढोकितानि पुरस्तेषां वत्ससजस्य मानुषैः ॥ १० ॥ दत्ता कल्पद्रुमेणैव दिव्या रसवती तदा । सुशालिभक्त प्रमुखा मनोज्ञा परिवेषिता ॥ ११ ॥ सुस्निग्धमधुराखादा मोदका: सिंह केसराः । मण्डि काः खाद्य कादीनि पक्वान्नान्यपराणि च ॥ १२ ॥ रसानामग्रिमं सद्यस्तापितं शुभगन्धयुक् । भोजनस्य विधेः सारं प्रक्षिप्तं प्रचुरं तम् ॥ १३ ॥ लपन थोतपूरगोरसव्यञ्जनादिका । रसवत्यऽखिला तत्त्र व्यापृताऽतिमनोहरा ॥ १४ ॥ भुञ्जानेऽथ महीपाले वत्सराजो व्यचिन्तयत् । उत्सवः सकलोऽप्येष विना पत्नीनं शोभते ॥ १५ ॥
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy