SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ पञ्चम: प्रस्तावः । २७१ ततश्च वनखण्डान्तमंत धर्ममिवाग्रतः । ददर्शायं परिवृतं सूरिं भूरितपोधनैः ॥ ४५ ॥ नमस्कृत्य गुरोः पादावनुज्येष्ठं मुनीनपि । उपविश्य च गुर्वन्ते पप्रच्छेवं कृताञ्जलिः ॥ ४६ ॥ प्रभो ! सर्व विजानासि निर्मलज्ञानचक्षुषा । तेन पृच्छामि सा मृत्वा कां गतिं वानरी ययौ ? ॥ ४७ ॥ गुरुः प्रोवाच भूपाल ! मरालधवलाशया। धर्मध्यानपरा धन्या सुरलोकमियाय सा ॥ ४८ ॥ यत: तपःसंयमदानोपकारेषु निरत: सदा । गुरुवाक्यरुचिर्जीवो दयावांश्च दिवं गमौ ॥ ४८ ॥ अपृच्छभूपतिर्भूयो भूयः पापपरायणः । जात्या च क्रियया चापि निषादाख्यः क्व यास्यति ? ॥५०॥ सूरिश्च कथयामास सर्वस्यापि स्फुटं ह्यदः । यद्यस्य पापिन: स्थानं किमन्यन्नरकं विना ॥ ५१ ॥ जीवहिंसामृषावादस्तेनान्य स्त्रीनिषेवणः । परिग्रहकषायैश्च विषयेविषयी कृतः ॥ ५२ ॥ कृतघ्नो निर्दयः पापी परद्रोहविधायकः । रौद्रध्यानपर: क्रूरो नरो नरकभाग् भवेत् ॥५३॥ (युग्मम्) प्रस्तावादपरगतिहयलक्षणमपि शृणु । पिशुनो गोमतिश्चैव मित्रे शायरत: सदा ॥ ५४ ॥ (१) ठ पिशुनो दुर्वि नोतश्च ।
SR No.009707
Book TitleShantinath Charita Part 03
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1910
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy