SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रस्तावः । २५८ इहाऽऽसीदमरावत्याः शाखानगरसन्निभा। शाखामृग'शताऽऽकीर्णा हरिकान्ताऽभिधा पुरी ॥ २० ॥ तत्राभूत् पृथिवीपालो हरिपालाभिध: सुधीः । हरीणां पालनत्वेन यदाख्या सत्यतां गता ॥ २१ ॥ तस्यामेव पुरि क्रूरो यमकिङ्करसन्निभः । कृतनो निर्दयश्चाभूद निषादो नाम घातकः ॥ २२ ॥ स पापड़िरत: पापो गत्वा नित्यं वनान्तरे । जघानानकशो जीवान् वराहहरिणादिकान् ॥ २३ ॥ इतस्तस्मिन् पुरासन्ने वनेऽनेकद्रुमाकुले । भूपप्रसादबलिनो वसन्ति स्म बलीमुखाः ॥ २४ ॥ तन्मध्ये वानरी काऽपि कापयविरता सदा । हरिप्रियाऽभिधानाऽभूद् दयादाक्षिण्यशालिनी ॥ २५ ॥ एकदा च निषादोऽयं नृशंसः शस्त्रपाणिकः । - अपश्यत् पुरतो घोरं मृगारिं मृगयापरः ॥ २६ ॥ सप्राणोऽपि ततः प्राणभयभीतो द्रुतं द्रुतम् । नंष्ट्वा क्वापि समासनेऽधिरूढो जगतोरुहे ॥ २७ ॥ समारोहनसौ तत्र पादपे समलोकयत् । विवृतास्यां भयात् तस्य पूर्वारूढां हरिप्रियाम् ॥ २८ ॥ यस्य बाणप्रहारेण मातङ्गोऽपि विपद्यते । सोऽस्या अपि तदा भीतो यद् भयो भयमीक्षते ॥ २८ ॥ (१) ख ध ठ -समाकीर्णा ।
SR No.009707
Book TitleShantinath Charita Part 03
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1910
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy