SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ अर्हम् अथ पञ्चमः प्रस्तावः । इतोऽस्य जम्बूद्दीपस्य प्राग्विदेहस्य 'मध्यगे । विजये पुष्कलावत्यामस्ति पूः पुण्डरी किणी ॥ १ ॥ नोतिकीर्तिजयश्रीणां स्त्रीणां सङ्घतमन्दिरम् । अभूत् तीर्थङ्करस्तत्र राजा घनरथाभिधः ॥ २ ॥ रूपलावण्यसंयुक्ते तस्याऽभूतामुभे प्रिये । आद्या प्रीतिमतोनानी हितीया च मनोहरी ॥ ३ ॥ वज्रायुधस्य जीवोऽथैक त्रिंशत्सागरस्थितेः । तस्मात् सर्वोत्तमवेयकादायुःक्षये च्युतः ॥ ४ ॥ तत्पर्वप्रेयसीकुक्षिशक्ती मुक्तामणिप्रभः । समुत्येदे सुतत्वेन मेघस्वप्नोपसूचित: ॥ ५ ॥ (युग्मम् ) सहस्रायुधजीवोऽथ ततश्चात्वोदरेऽभवत् । राज्ञः पत्नयाः द्वितीयस्याः सुरथस्वप्नशंसितः ॥ ६ ॥ पूर्ण कालेऽथ ते देव्यौ प्रसूते शुभलक्षणौ । मेघरयदृढरथनामानौ वरनन्दनौ ॥ ७ ॥ अतिक्रान्तशिशुत्वौ तौ कलाचार्यस्य सन्निधौ। सुविनीतौ महाप्राजी पेठतुः सत्कला इति ॥ ८ ॥ (१) ख घज भूषणे ।
SR No.009707
Book TitleShantinath Charita Part 03
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1910
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy