SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ २३८ (१ श्रोशान्तिनाथचरित्रे इत्यर्थे कथिते तेन पुना राज्ञा परेद्यविः । ग्रामस्था इत्यभाष्यन्त बस्तमुद्दिश्य पुंगिरा ॥ १८ ॥ पोषणीयः प्रतिदिनं बस्तोऽसौ चारिवारिभिः । अहौनाधिकमेदास्तु पुनः प्रेष्योऽस्मदन्तिकम् ॥ १८ ॥ कथितं रोकस्यैव ततस्तेनापि धीमता । तृणाऽऽदिपोषितस्यास्य दर्श्यते प्रत्यहं वृकः ॥ २० ॥ तथाक्कृतेऽमुना राज्ञा प्रेषितः कुक्कुटोऽन्यदा । एकोऽपि योधनीयोऽयं दत्ताऽऽज्ञा चेदृशी तथा ॥ २१ ॥ संक्रान्तप्रतिबिम्बोऽसावादर्शे योधितश्चिरम् । तिलानां शकटान् प्रेष्य भाणितं भूभुजा पुनः ॥ २२ ॥ यन्त्रे हि पोडयित्वाऽमून् तैलं कार्यं परं तिलाः | मौयन्ते येन मानेन मेयं तेनैव तेलकम् ॥ २३ ॥ रोहको मापयामास पृथ्वादर्शतलेन तान् । भूयस्तेनैव तैलं च बुद्धेः किं नाम दुष्करम् ? ॥ २४॥ अन्यदाऽकारयद् वर्तिं नृपतिर्वालुकामयीम् । अनया गोपयिष्यन्ते शालीनां किल तन्दुलाः ॥ २५ ॥ रोहकोऽप्यवदद राजकार्यं कार्यं यथातथम् । परं प्रमाणं नैतस्या जानीमोऽकृतपूर्विणः ॥ २६ ॥ ततस्तस्याः पुरातन्याः खण्डमेकं प्रदर्श्यताम् । यतस्तेन प्रमाणेन सा नव्या क्रियते बहुः ॥ २७ ॥ ख घ ज -तः स्वयम् ।
SR No.009707
Book TitleShantinath Charita Part 03
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1910
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy