SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः। २१७ यूयमत्र पुरे मुख्या याचितारः सुतां मम । महिता बन्धुभिश्चेभिस्तद् वाच्यं किमत: परम् ? ॥ ८ ॥ पितुः पाखें स्थिता साऽथ कन्यका 'सहसाऽवदत् । ताताहं पुण्यसारस्य भविष्यामि न गेहिनी ॥ ८ ॥ तस्यास्तद् वचनं श्रुत्वा दध्यावेवं पुरन्दरः । अहो ! मे तनयस्यास्यां व्यर्थः पाणिग्रहाग्रहः ॥ १० ॥ यस्या एवंविधा वाणी कर्कशा शैशवेऽप्यहो ।। भाविनी यौवनोन्मत्ता सा भर्तुः सुखदा कथम् ? ॥ ११ ॥ उवाच रत्नसारस्तु मुग्धेयं तनया मम । वाच्यावायं न जानाति तदस्या: फल्गु जल्पितम् ॥ १२ ॥ तथाऽहं बोधयिष्यामि श्रेष्ठिन् ! ते तनयो यथा । परिणष्यत्यमुं चैव मया दत्ता त्वसौ ध्रुवम् ॥ १३ ॥ ततः पुरन्दरः श्रेष्ठी ग्रहमागत्य तत्कथाम् । कथयित्वाऽवदत् पुत्रं वत्स ! सा तव नोचिता ॥ १४ ॥ यत: कुदेहां विगतस्नेहां लज्जाशीलकुलोज्झिताम् । अतिप्रचण्डां दुस्तुण्डां ग्रहिणों परिवर्जयेत् ॥ १५ ॥ प्रत्यूचे पुण्यसारस्तु अमुं परिणयामि चेत् । भवामि तदहं सत्यप्रतिजस्तात ! नान्यथा ॥ १६ ॥ (१) ङ चाबीदिदम् । नाहं परिणयिष्यामि त्वेनं च श्रेष्ठि नः सुतम् ॥ श्रुत्वा त्वेवंविधां वाणी कर्कशा शैशवेऽयहो ।
SR No.009707
Book TitleShantinath Charita Part 03
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1910
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy