SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ २१२ श्रीशान्तिनाथचरित्रे तच्छ्रत्वा विस्मिताः सर्वेऽप्येवसूचुः सभासदः । अहो अस्मत्प्रभोनि कालत्रितयदीपकम् ॥ ५६ ॥ साऽथ शान्तिमतौ वायुवेगश्चाऽजितसेनकः । त्रयोऽपि चक्रिणं नत्वा जग्मुस्ते स्थानमात्मनः ॥ ५७ ॥ कुमारस्य सहस्रायुधस्याथ तनयोऽभवत् । जवनाकुक्षिसञ्जातो नाम्ना कनकशक्तिकः ॥ ५८॥ आद्या कनकमाला वसन्तसेना तथाऽपरा। उभे बभूवतुस्तस्य प्रिये तुल्यकुलोभने ॥ ५८ ॥ क्रीडां कर्तुमथाऽन्ये युः स गतो गहनं वनम् । ददर्शकं प्रकुर्वन्तं पतनोत्यतन नरम् ॥ ६० ॥ पृष्टोऽत्र कारणं तेन सोऽवदट् खेचरोऽस्माहम् । वैताट्यवासी सर्वत्रास्वलितो विचरामि भोः ! ॥ ६१ । इहागत्य चिरं स्थित्वा गच्छतः पुनरेव मे । पदमेकं खगामिन्या विद्याया भद्र ! विस्मृतम् ॥ ६२ ॥ तत। गन्तुमनी शोऽहं करोम्येवंविधक्रियाम् । कुमार: स्माऽऽह भो: ! तावत् पठ विद्यां ममाग्रतः ॥६३॥ विद्याधरोऽप्यपाठौत् तां सत्यमानिति तत्परः । पदानुसारिलब्धमा कुमार: पूरयति स्म तत् ॥ ६४ ॥ खेचरोऽथ कुमाराय स्वविद्यां प्रददो मुदा । तेन प्रणीतविधिना साधयामास सोऽपि ताम् ॥ ६५ ॥ (१) ड. ममगाद् । (२) घ ङ पतनोत्यतनम् ।
SR No.009707
Book TitleShantinath Charita Part 03
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1910
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy