SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ( १ ) पञ्चमः प्रस्तावः । अमीषां रक्षको वत्सोऽप्यागतो न ग्टहे यतः । श्रेष्ठाचे यदसौ बालो नाययौ तन्न 'शोभनम् ॥ १४ ॥ प्रदोषसमये सोऽथ समायातो निजं गृहम् | लग्ना किमियतो वेलेत्यूचे मात्राऽन्यया तथा ? ॥ १५ ॥ सोऽवदन्ननु हे मातः ! सुप्तोऽभूवमहं बहिः । केनापि बोधितो नैवाधुना जागरितः स्वयम् ॥ १६ ॥ एवं द्वितीयदिवसे तृतीयेऽपि व्यधादसौ । तर्णकेष्वागतेषूपालम्भं श्रेष्ठो ददौ तयोः ॥ १७ ॥ रुष्टाभ्यामथ ताभ्यां स भणितो वत्स । किं तव । ! परदेशागतिः कर्मकरत्वं चैव विस्मृतम् ? ॥ १८ ॥ परवेश्मनिवासश्च तथा कष्टेन भोजनम् । २८७ यदेवं त्वमुपालम्भमानयस्यद्य बालक ! ॥ १८ ॥ वत्सराजोऽब्रवीन्मातर्वत्सरूपाणि न ह्यहम् । कदाऽपि चारयिष्यामीत्याख्येयं वणिजोऽस्य हि ॥ २० ॥ तया चाख्यायि तत्तस्य वत्सराजोऽपि सर्वदा 1 तेषां पार्श्वे कुमाराणां यात्वा भुङ्क्ते स्म तत्र च ॥ २१ ॥ क्व गच्छसि सदैव त्वं भोजनं वा कथं तव ? | इति पृष्टोऽम्बयाऽन्येद्युर्वत्सस्तस्यै शशंस तत् ॥ २२ ॥ प्रपात पूर्वं च तयैवं भणितस्ततः । कथं त्वमावयोः चिन्तां करोषि न हि पुत्रक ! ? ॥ २३ ॥ ठ सुन्दरम् । (२) द तथाऽन्यथा ।
SR No.009707
Book TitleShantinath Charita Part 03
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1910
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy