SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ १७८ श्रीशान्तिनाथचरित्रे एवं भवतु राजेति प्रपन्ने सोऽवदत् पुनः । यूयं विनिद्रा मे काञ्चित् कथां कथयत प्रभो ! ॥ ८ ॥ अथवा कथ्यमानां तां यूयं शृणुत सोद्यमाः । इयं हि निर्विनोदानां चयं याति न यामिनी ॥ ८ ॥ त्वमेवाऽऽख्याहि भोः ! भद्रेत्यादिष्टः पृथिवीभुजा । ततश्चाऽऽख्यातुमारेभे वत्सराजः कथामिमाम् ॥ १० ॥ बहुलोकसमायुक्तं मुक्तमीतिभयादिभिः । अस्तीह पाटलीपुत्रं युक्तं भूपशतैः पुरम् ॥ ११ ॥ तत्त्राभूत् पृथिवीराजो राजा शत्रुविनाशकृत् । भूमिमण्डलविख्यातो धार्मिको विनयो नयो ॥ १२ ॥ विनयादिगुणाssधारा सुविचारा मनोहरा । आसीद् रत्या समाकारा 'सुतारा तस्य वल्लभा ॥ १३ ॥ उदारो निर्मलाssचार: सुविचारो दयापरः । रत्नसारोऽभिधानेन तत्र श्रेष्ठिवरोऽभवत् ॥ १४ ॥ अनवद्यक्रियाऽऽसक्ता भक्ता देवगुरुष्वलम् | सलज्जा रज्जुकानाम्नी तस्याभूद् गृहिणी वरा ॥ १५ ॥ धनदत्तस्तयोः पुत्रः पवित्रः शुभकर्मणा । कलाकलापसंयुक्तो विमुक्तो व्यसनाऽऽदिभिः ॥ १६ ॥ सोऽन्यदा कृतशृङ्गारो मित्रबान्धवसंयुतः । निर्गत्य मन्दिराद् गन्तुं प्रवृत्तोऽर्थेन केनचित् ॥ १७ ॥ (१) ध ज ड द सुभगा ।
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy