SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ १३८ श्रीशान्तिनाथचरित्रे तत्कूटमोहितः सोऽथ तत् सत्यमिति चिन्तयन् । दृष्ट्याऽऽलोकयते स्मास्या दुर्गतेरिव संमुखम् ॥ ७४ ॥ यक्षेणोल्लालयित्वाऽथ क्षिप्तः सोऽथ स्वपृष्ठतः । तया नौरमसंप्राप्तस्त्रिशूलेन प्रतीच्छितः ॥ ७५ ॥ लभस्व पाप ! रे सद्यो मम वञ्चनजं फलम् । इत्युदित्वा च खड्न खण्डयित्वा निपातितः ॥ ७६ ॥ ततश्च कूटकपटरचनानाटिका नटी। प्रत्याययितुमारेभे चाटुभिर्जिनपालितम् ॥ ७७ ॥ यक्षेण भणितः सोऽथ यद्यस्या वचने रुचिः । भविष्यति गतिस्तत्ते कनिष्ठस्येव निश्चितम् ॥ ७८ ॥ जातो निश्चलचित्तोऽसौ तं कूटमवधूय तत् । क्षेमेण सह यक्षेण प्राप्तः चम्पापुरी निजाम् ॥ ७८ ॥ वलिता व्यन्तरी साऽथ यक्षोऽपि वलितः सकः । क्षामितः कृतकृत्येन श्रेष्ठिपुत्रेण भक्तितः ॥ ८० ॥ गेहे गत्वा स्वलोकस्य मिलितो जिनपालितः । कथयामास तइन्धुमरणं शोकसङ्कुलम् ॥ ८१ ॥ मृतकार्याणि तस्याऽथ माकन्दी वजनान्वितः । विधाय पालयामास टहवासं सुतश्च सः ॥ ८२ ॥ अन्यदा समवासार्षीत् तत्र वीरजिनेश्वरः । तं नन्तं जग्मतुश्चैती माकन्दिजिनपालितौ ॥ ८३ ॥ (१) ङ च छ शोक संकुलः।
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy