SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः । ५३ प्रतिपत्तिं विधायाथ संपृष्टोऽमिततेजसा । राजा श्रीविजयः सर्व स्ववृत्तान्तं न्यवेदयत् ॥ ८४ ॥ तच्छ्रुत्वा सोऽपि संक्रुद्धोऽशनिघोषाय सत्वरम् । मारोचिनामकं दूतं शिक्षा दत्त्वा विसृष्टवान् ॥ ८५ ॥ गत्वा चमरचञ्चायां स दूतस्तमभाषत । आनोताऽस्ति त्वयाऽज्ञानात् भगिनी स्वामिनो मम ॥८६॥ राज्ञी श्रीविजयस्याहो सुतारेति सती वरा। अप्यतां साधुना शीघ्रमनर्थ माऽऽत्मनः कथाः ॥८॥(युग्मम्) उवाचाशनिघोषोऽपि सगर्वोडरकन्धरः । रे दूतार्पयितुं नाम किमानीताऽस्त्यसो मया ॥ ८८ ॥ मत्तो यः कश्चिदप्येनामनात्मज्ञो जिहीर्षति । दीप्ते मत्खगदीपेऽस्मिन् शलभत्वं स यास्यति ॥ ८८ ॥ इत्यु क्वा ग्राहयित्वा च कण्ठे निर्वासितोऽमुना। स्वस्थानमगमदूतस्तदर्थोऽस्य शशंस च ॥ ८० ॥ ततः श्रीविजयायादात् विद्यां शस्त्रनिवारिणीम् । बन्धमोचनिकां चैवामिततेजोनरेश्वरः ॥ ८१ ॥ एकैकां साधयामास स सप्तदिवसैः पृथक् । सिद्धविद्यस्ततश्चारिविजयाय चचाल सः ॥ ८२ ॥ कुमारा रश्मिवेगाद्याः सुता अमिततेजसः । अनु श्रीविजयं चेलुः शतसंख्या महौजसः ॥ ८३ ॥ (१) ख घ च त तदर्यस्य । ग तहार्यस्य ।
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy