SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः। ४७ यदितः सप्तमे घस्रे पोतनाधिपतेर्ननु । निपतिथल्यचिरांशुः शीर्षोपरि न संशयः ॥ २१ ॥ तच्छ्रुत्वा परिषहज़ाहतेवाभूत्सुदुःखिता। भणितश्च कुमारेण गाढकोपपरेण सः ॥ २२ ॥ पतिष्यति यदा विद्युत् रे पोतनपुरेशितुः । पतिष्यति तदा शीर्षे त्वदीये किं नु दुर्मते ॥ २३ ॥ नेमित्तिकोऽवदन्मह्यं त्वं कुप्यसि कुमार किम् । यदत्र दृष्टं संज्ञाने भवेत्तज्जातु नान्यया ॥ २४ ॥ वस्त्राभरणरत्नानां वृष्टिर्मम भविष्यति । राज्ञा प्रोचे त्वया ह्येतविमित्तं शिक्षितं कुतः ॥ २५ ॥ सोऽब्रवीहलदेवस्य दीक्षाकाले मयाऽपि हि। प्रव्रज्या प्रतिपन्नाऽऽसीत्कियत्कालं च पालिता ॥ २६ ॥ अधीतं च तदा शास्त्रमेत येन भणाम्यहम् । सर्वज्ञशासनमृते सम्यग् ज्ञानं न विद्यते ॥ २७ ॥ पश्चाच्च विषयाशक्तोऽभूवं राजन् पुनही । धनाशयेहागतोऽस्मि कतदारपरिग्रहः ॥ २८ ॥ ज्ञात्वा सत्यं निमित्तं तत् राजलोकोऽखिलस्तदा । स्वस्वामिरक्षणोपायचिन्तया व्याकुलोऽभवत् ॥ २८ ॥ तत्रैको न्यगदन्मन्त्री यत् स्वामी सप्त वासरान् । यानारूढः समुद्रान्त धियतेऽतिप्रयत्नतः ॥ ३० ॥ द्वितीयः स्माह पानीये विद्युद्यद्यपि न स्मरेत् । (१) ङ सज ज्ञाने। (२) ख, घ, च -देव।
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy