SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 'प्रथमः प्रस्तावः। क्रमेण सोऽथ राजर्षि: सर्वसिद्धान्तपारगः । स्थापितो गुरुणा सूरिपदे परिकरावृतः ॥ २ ॥ त्रैलोक्य सुन्दरी साध्वी स्थापिता च प्रवर्तिनी। विपद्योभौ च तावन्ते ब्रह्मलोकमुपयतुः ॥ ३ ॥ ततश्चातौ मनुष्यत्वं प्राप्यानिमिषतां पुनः । एवं भवे तीये तो प्रापतुः पदमव्ययम् ॥ ४ ॥ ॥ इति मङ्गलकलसकथानकम् ॥ श्रुत्वा धर्मकथामतां प्रतिबुद्धो महीपतिः । गुरोः पार्वे स सम्यक्त्वं श्राइधर्ममुपाददे ॥ ५ ॥ विजहारान्यतः सूरी श्रीषेण नृपतिः पुनः । राज्यं तज्जैनधर्म च पालयामास यत्नतः ॥ ६ ॥ राज्ञ एवोपदेशेन तत्प्रिया साऽभिनन्दिता । भेजे धर्म विशेषेण भद्रकत्वं तथाऽपरे ॥ ७ ॥ इतश्च बलभूपेन कौशाम्बीस्वामिनाऽन्यदा । श्रीमतीकुक्षिसम्भूता श्रीकान्ता तनया निजा ॥ ८ ॥ पोषणतनयस्येन्दुषेणस्यार्थे स्वयंवरा। प्रेषिता नगरे तत्र परिवारसमन्विता ॥ ८ ॥ ( युग्मम् ) रूपातिशयसम्पत्रां तां दृष्ट्वा नवयौवनाम् । उभावपि परिणे तुकामौ तो नृपनन्दनी ॥ १० ॥ अयुध्येतां मिथो देवरमणोद्यानमध्यगी। सत्रद्धगाढकवचौ वन्येभाविव दारुणौ ॥ ११ ॥ (युग्मम् )
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy