SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्रीशान्तिनाथचरित्र विरक्ता सत्यभामा सा कपिलस्य रहात्तत: । गत्वा श्रीषेणभूपालं कृताञ्जलिरथावदत् ॥ ४७ ॥ देव त्वं जगतीपालो लोकपालश्च पञ्चमः । दीनानाथाशरण्यानां सर्वेषां त्वं गति: 'किल ॥ ४८ ॥ ततः कुरुष्व कारुण्यं ममाप्युपरि भूपते । प्रत्यूचे पार्थिवस्तां हि किं ते दुःखस्य कारणम् ॥ ४८ ॥ पूज्यस्तावदुपाध्यायस्तस्य त्वमसि नन्दिनी। गेहिनी कपिलस्यापि मान्यस्त्वत्पितुरेव यः ॥ ५० ॥ उवाच सत्यभामेवमस्ति राजन् परं मम । भर्ता यः कपिलो नाम सोऽकुलीनत्वदूषितः ॥ ५१ ॥ राज्ञाऽथ कथमित्युक्ता राज्ञोऽग्रे साऽपि सूनृताम् । तत्कथां कथयामास भूयश्चैवमभाषत ॥ ५२ ॥ अमुष्य ग्रहवासेन पर्याप्तं मम सर्वथा। तथा कुरु महीनाथ यथा शीलं चराम्यहम् ॥ ५३ ॥ आकार्य भूभुजाऽभाणि साञ्जसं कपिलोऽथ सः । विरता रहवासस्य भद्रेयं त्वप्रियेत्यलम् ॥ ५४ ॥ तदिमां विगतस्नेहां मुञ्च त्वं स्वपरिग्रहात् । यथाऽसौ पिटगेहस्था कुर्याद्धर्म कुलोचितम् ॥ ५५ ॥ कपिलोऽप्यब्रवीद्देव क्षणमप्यनया विना। न स्थातुमहमोशोऽस्मि तदियं मुच्यते कथम् ॥ ५६ ॥ (१) घ प्रभो। २) घ टरिणी।
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy