SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ योगगर्भ योगशाखम् ॥२८॥ स्तुतिः भुवीव पादविहार कुशलाः ज्योतीरश्मिचारणाः । पवनेष्वनेकदिग्मुखोन्मुखेषु प्रतिलोमानुलोमवर्तिषु तत्प्रदेशावलीमुपादाय गतिमस्खलितचरणविन्यासामास्कन्दन्तो वायुचारणाः । तपश्चरणमाहात्म्याद्गुणादितरतोऽपि वा । आशीविषाः समर्थाः स्युनिग्रहेऽनुग्रहेऽपि च ॥१॥ द्रव्याणि मूर्तिमन्त्येव विषयो यस्य सर्चतः । नैयत्यरहितं ज्ञानं तत्स्यादवधिलक्षणम् ॥२॥ स्यान्मनःपर्यायो ज्ञानं मनुष्यक्षेत्रवर्तिनाम् । प्राणिनां समनस्कानां मनोद्रव्यप्रकाशकम् ॥३॥ ऋजुश्च विपुलश्चेति स्यान्मनःपर्ययो द्विधा । विशुद्धय प्रतिपाताभ्यां विपुलस्तु विशिष्यते ॥४॥९॥ केवलज्ञानलक्षणफलोपदर्शनेन योगमेव स्तौति| अहो योगस्य माहात्म्यं प्राज्यं साम्राज्यमुद्वहन् । अवाप केवलज्ञानं भरतो भरताधिपः॥१०॥ __अहो इत्याश्चर्ये प्राज्य पुष्फलं साम्राज्यं चक्रवर्तित्वमुद्वहन्नेव न पुनस्त्यक्तराज्यसम्पत् । भरताधिपः षदखण्डभरतक्षेत्रस्वामी । तथाहि-- एतस्यामवसपिण्यामेकान्तसुषमारके । सागरोपमकोर्टानां चतुष्कोटिमिते गते ॥१॥ सागरोपमकोटीनां तिमृभिः कोटिभिर्मिते । अरके सुषमानाम्नि द्वितीयेऽपि गते सति ॥२॥ तदद्विकोटाकोटिमिते सुषमदुःपमारके । पल्ल्याष्टमांशशेषे च दक्षिणाईस्य भारते ॥३॥ सप्ताभूवन् कुलकरा इमे विमलवाहनः । चक्षुष्मांश्च यशस्वी चाभिचन्द्रोऽथ प्रसेनजित् ॥४॥ मरुदेवश्च नाभिश्च तत्र नाभेगृहिण्यभूत् । मरुदेवेति सच्छीलपवित्रितजगत्त्रया ॥५॥ ૨૮
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy