SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् । ७३७ यद्यपि कर्मघातार्थिनां शशिप्रभस्यैव प्रणवस्य ध्यानमुचितं, तथापि तत्तद्रव्य क्षेत्रकालभावसामग्रीवशेन पीतादिध्यानान्यपि कदाचिदुपकारीणीत्येतदुपदिष्टम् । ओं ॥३१॥ प्रकारान्तरेण पदमयीं देवतां प्रस्तौति- तथा पुण्यतमं मन्त्रं जगत्त्रितयपावनम् । योगी पञ्चपरमेष्ठिनमस्कारं विचिन्तयेत् ॥३२॥ स्पष्टः ||३२|| ततश्च- अष्टपत्रे सिताम्भोजे कर्णिकायां कृतास्थितिम् । आद्यं सप्ताक्षरं मन्त्रं पवित्रं चिन्तयेत्ततः ॥ ३३ ॥ | | " नमो अरिहंताणं' इति आद्यः सप्ताक्षरो मन्त्रः ||३३|| ततश्व सिद्धादिकचतुष्कं च दिक्पत्रेषु यथाक्रमम् । चूलापादचतुष्कं च विदिक्पत्रेषु चिन्तयेत् ॥ ३४ ॥ दिकपत्रेषु पूर्वादिदिग्व्यवस्थितेषु पत्रेषु सिद्धादिचतुष्टयं नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणं । विदिक्पत्रेषु आग्नेय्यादिविदिग्व्यवस्थितेषु दलेषु चूलापादचतुष्कं - एसो पंच नमुकारो, सव्वपावप्पणासणो, मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं । इति ध्यायेत् ||३४|| अस्य व्युष्टिमाह त्रिशुध्या चिन्तयंस्तस्य शतमष्टोत्तरं मुनिः । भुञ्जानोऽपि लभेतैव चतुर्थतपसः फलम् ॥ ३५॥ 'अरहंताणं' इत्यपि प्रत्यन्तरे दृश्यते, एवमग्रेऽपि सवत्र दृश्यम् ॥ ME RECENT & SECSE अष्टमः प्रकाशः । ॥७३७॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy