SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् । ॥७३५॥ स्पष्टाः ॥६- १७ ॥ पुनरपि प्रकारान्तरेण पदमयीं देवतां पञ्चभिः श्लोकैराह— यद्वा मन्त्राधिपं धीमानूर्ध्वाधरेफसंयुतम् । कलाविन्दुसमाक्रान्तमनहितयुतं तथा ॥ १८ ॥ कनकाम्भोजगर्भस्थं सान्द्रचन्द्रांशुनिर्मलम् । गगने संचरन्तं च व्याप्नुवन्तं दिशः स्मरेत् ॥ १९ ॥ ततो विशन्तं वक्त्राब्जे भ्रमन्तं भ्रूलतान्तरे । स्फुरन्तं नेत्रपत्रेषु तिष्ठन्तं भोलमण्डले ॥२०॥ निर्यातं तालुरन्ध्रेण स्रवन्तं च सुधारसम् । स्पर्धमानं शशाङ्केन स्फुरन्तं ज्योतिरन्तरे ॥२१॥ संचरन्तं नभोभागे योजयन्तं शिव श्रिया । सर्वावयवसंपूर्ण कुम्भकेन विचिन्तयेत् ॥२२॥ अहं । स्पष्टाः । याहु:- "अकारादि हकारान्तं रेफमध्ये सबिन्दुकम् । तदेव परमं तत्त्वं यो जानाति स तत्ववित् ॥१॥” इति ॥ २२॥ मन्त्रराजस्य ध्याने फलमाह- महातत्त्वमिदं योगी यदैव ध्यायति स्थिरः । तदैवानन्दसंपद्भूर्मुक्तिश्रीरुपतिष्ठते ॥२३॥ स्पष्टः ||२३|| अनन्तरविधिमाह रेफबिन्दुकलाहीनं शुभ्रं ध्यायेत्ततोऽक्षरम् । ततोऽनक्षरतां प्राप्तमनुच्चार्यं विचिन्तयेत् ॥२४॥ स्पष्टः ||२४|| ततः अष्टमः प्रकाशः । ॥७३५॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy