SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ योग शाखम्। सप्तमः प्रकाशः। ॥७३०॥ पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् । चतुर्धा ध्येयमाम्नातं ध्यानस्यालम्बनं बुधैः ॥८॥ पिण्डं शरीरं तत्र तिष्ठतीति पिण्डस्थं ध्येयम् ॥८॥ तद्धारणाभेदेनाहपार्थिवी स्यादथाग्नेयी मारुती वारुणी तथा । तत्रभूः पञ्चमी चेति पिण्डस्थे पञ्च धोरणाः॥९॥ ___स्पष्टः ॥९॥ तत्र पार्थिवीं धारणां श्लोकत्रयेणाह-- | तिर्यग्लोकसमं ध्यायेत् क्षीराब्धि तत्र चाम्बुजम् । सहसपत्रं स्वर्णाभं जम्बूद्वीपसमं स्मरेत्॥१०॥ तत्केसरततेरन्तः स्फुरत्पिङ्गप्रभाञ्चिताम् । स्वर्णाचलप्रमाणां च कर्णिकां परिचिन्तयेत् ॥११॥ श्वेतसिंहासनासीनं कर्मनिर्मूलनोद्यतम् । आत्मानं चिन्तयेत्तत्र पार्थिवी धारणेत्यसौ ॥१२॥ तिर्यग्लोकसम तिर्यग्लोकप्रमाणं यावान् तिर्यग्लोकस्तावन्मात्रं रज्जुप्रमाणमिति यावत् । शेषं स्पष्टम् ॥१०-१२॥ अथाग्नेयीं धारणां षइभिः श्लोकैराह-- विचिन्तयेत्तथा नाभौ कमलं षोडशच्छदम् । कर्णिकायां महामन्त्रं प्रतिपत्रं स्वरावलिम् ॥१३॥ रेफबिन्दुकलाक्रान्तं महामन्त्रो यदक्षरम् । तस्य रेफोद्विनिर्यान्तीं शनै—मशिखां स्मरेत् ॥१४॥ || ॥७३०॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy