SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ योग शाखम् पश्चम प्रकाशः। ॥७२३॥ वहन्तीं नासिकां वामां दक्षिणां वाऽभिसंस्थितः। पृच्छेद्यदि तदा पुत्रो रिक्तायां तु सुता भवेत् ॥ सुषुम्णावाहभागे द्वौ शिशूरिक्ते नपुंशकम् । संक्रान्तौ गर्भहानिः स्यात् समे क्षेममसंशयम्॥२४६॥ स्पष्टौ ॥२४५-२४६ मतान्तरमाह--- चन्द्रे स्त्री पुरुषः सूर्ये मध्यभागे नपुंसकम् । प्रश्नकाले तु विज्ञेयमिति कैश्चिन्निगद्यते ॥२४७॥ स्पष्टः ॥२४७॥ पवननिश्चयोपायमाहA यदो न ज्ञायते सम्यक् पवनः संचरन्नपि । पीतश्वतारुणश्योमेनिश्चेतव्यः स बिन्दुभिः ॥२४८॥ स्पष्टाः ॥२४८॥ बिन्दुनिरीक्षणोपायं श्लोकद्वयेनाहअङ्गुष्ठाभ्यां श्रुती मध्याङलीभ्यां नोसिकापुटे । अन्त्योपोन्त्योङलीभिश्च पिधाय वदनाम्बुजम् ॥ | कोणावक्ष्णोनिपीड्याद्याशुलीभ्यां श्वासरोधतः। यथावणं निरीक्षेत विन्दुमव्यग्रमानसः॥२५०॥ ___स्पष्टौ ॥२४९-२५०॥ बिन्दुज्ञानात् पवननिश्चयमाहपीतेन बिन्दुना भौमं सितेन वरुणं पुनः। कृष्णेन पवनं विन्द्यादरुणेन हुताशनम् ॥२५॥ स्पष्टः ॥२५१॥ अनभिमतां नाडी निषेधुमुपायमाह-- निरुरुत्सेद्वहन्तीं यां वामां वा दक्षिणामथ । तदङग पीडयेत्सद्यो यथा नाडीतरा वहेत् ॥२५२॥ ॥७२३॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy