SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ योग शाखम्। पञ्चमा प्रकाशा 1७०६|| प्रकारान्तरेण कालज्ञानं षड्भिः श्लोकैराहप्रतिपदिवसे कालचक्रज्ञानाय शौचवान् । आत्मनो दक्षिणं पाणिं शुक्लपक्षं प्रकल्पयेत् ॥१२९॥ __ प्रतिपदिवसे प्रथमतिथौ शुचिः कालचक्रं ज्ञातुमात्मनो दक्षिण पाणिं शुक्लपक्षं प्रकल्पयेत् ॥१२९॥ तथाअधोमध्यो पर्वाणि कनिष्ठाङ्गुलीगानि तु । क्रमेण प्रतिपत्षष्ठयेकादशीः कल्पयेत्तिथीः॥१३०॥ अवशेषाङ्गुलीपर्वाण्यवशेषतिथीस्तथा । पञ्चमीदशमीराकाः पर्वाण्यङ्गुष्ठगानि तु ॥१३१॥ | ___ कनिष्ठागुलेरधस्तनपर्व प्रतिपदं, मध्यपर्व षष्ठीं, ऊर्ध्वपर्व एकादशी कल्पयेत् । अष्टवज शेषाङ्गुलीपर्वाणि शेषास्तिथीः कल्पयेत् । तथाहि--अनामिकापर्वसु द्वितीयातृतीयाचतुर्थी.. मध्यमापर्वसु सप्तम्यष्टमीनवमीः, तर्जन्यां द्वादशीत्रयोदशीचतुर्दशीः कल्पयेत् । अङ्गुष्ठपर्वाणि पश्चमीदशमीपञ्चदशीः कल्पयेत् ॥१३०॥१३१।।तथावामपाणिं कृष्णपक्षं तिथीस्तद्वच्च कल्पयेत् । ततश्च निर्जने देशे बद्धपद्मासनः सुधीः।१३२॥ प्रसन्नः सितसंव्यानः कोशीकृत्य करद्वयम् । ततस्तदन्तः शून्यं तु कृष्णं वर्ण विचिन्तयेत् ।१३३ ___ स्पष्टौ ॥१३२॥१३३॥ तथा-- उद्घाटितकराम्भोजस्ततो यत्राङ्गुलीतिथौ। वीक्ष्याते कालविन्दुः स काल इत्यत्र कीर्त्यते।१३४ * "वीक्षते कालविन्दु स" इति पाठः स्यात् ॥ I७०६॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy