SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ योग. शाखम्। पञ्चमा प्रकाशः। ॥६९४५ संक्रान्तीः समतिक्रम्य त्रयोदश समीरणः। प्रवहन् वामनासायां रोगोद्वेगादि सूचयेत् ॥७॥ वामनासायां त्रयोदश संक्रान्तीय॑तिक्रम्य चतुर्दश्यां संक्रान्तौ वहन् वायू रोगोद्वेगादि सूचयति।।७८||तथा-- मार्गशीर्षस्य संक्रान्तिकालादारभ्य मारुतः। वहन् पञ्चाहमाचष्टे वत्सरेऽष्टोदशे मृतिम् ॥७९॥ ___ मार्गशीर्षस्य प्रथमदिवसादारभ्य यदा पञ्चरात्रमेकनाड्यां वहेत् वायुः तदाऽष्टादशे वर्षे मरणम् ॥७९॥ तथा| शरत्संक्रान्तिकालाच पञ्चाहं मारुतो वहन् । ततः पञ्चदशाब्दानामन्ते मरणमादिशेत् ॥८॥ ____ अश्वयुक्प्रथमदिवसादारभ्य पञ्च दिनान्येकनाडयां यदि वायुर्वहेत् तदा पञ्चदशवर्षान्ते मरणम् ॥८०॥ तथा-- | श्रावणादेः समारभ्य पश्चाहमनिलो वहन् । अन्ते द्वादशवर्षाणां मरणं परिसूचयेत् ॥८१॥ | वहन् ज्येष्ठादिदिवसादशाहानि समीरणः। दिशेन्नवमवर्षस्य पर्यन्ते मरणं ध्रुवम् ॥८२॥ | आरभ्य चैत्राद्यदिनात् पञ्चाहं पवनो वहन् । पर्यन्ते वर्षषट्कस्य मृत्यु नियतमादिशेत् ॥८३॥ | आरभ्य माघमासादेः पच्चाहानि मरुद्वहन् । सवत्सरत्रयस्यान्ते संसूचयति पञ्चताम् ॥८४॥ ____ अमी चत्वारः श्लोकाः पूर्ववद्वयाख्येयाः ॥ ८१ ॥ ८२ ॥ ८३ ॥ ८४ ॥ तथाill सर्वत्रा द्वित्रिचतुरो वायुश्चेदिवसान वहेत् । अब्दभागैस्तु ते शोध्या यथावदनुपूर्वशः ॥५॥ ॥६९४॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy