SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ यांगशाखम्। पञ्चमा प्रकाशः। ॥६९१॥ पीयूषमिव वर्षन्ती सर्वगात्रेषु सर्वदा । वामाऽमृतमयी नडी सम्मताऽभीष्टसूचिका ॥६॥ वहन्त्यनिष्टशंसित्री संहीं दक्षिणा पुनः। सुषुम्णा तु भवेत् सिद्धिनिर्वाणफलकारणम् ॥६३। स्पष्टौ । नवरं सिद्धयोऽणिमाद्याः; निर्वाणं मुक्तिः ॥६॥६३॥ वामदक्षिणयोः कार्य प्रति विशेषमाहवामैवाभ्युदयादीष्टशस्तकार्येषु सम्मता । दक्षिणा तु रताहारयुद्धादौ दीप्तकर्मणि ॥६॥ __अभ्युदयादीनीष्टानि शस्तानि च यानि कार्याणि तेषु वामैव नाडी सम्मता, दक्षिणा तु रतारम्भे, भोजनकाले युद्धे, आदिशब्दादन्यत्रापि दीप्ते कर्मणि सम्मता ॥६॥ पुनर्बामदक्षिणयोविषयविभागमाह-- वामा शस्तोदये पक्षे सिते कृष्णे तु दक्षिणो। त्रीणि त्रीणि दिनोनीन्दुसूर्ययोरुदयः शुभः॥ ६५॥ सिते पक्षे आदित्योदयकाले वहन्ती वामा शस्ता भवति, कृष्णपक्षे तु दक्षिणा शस्ता । किं सकलेऽपि पक्षे ? नेत्याह-इन्दुसूर्ययोमदक्षिणयोर्नाडयोसीणि त्रीणि दिनानि उदयः शुभः ॥६५॥ उदयनियममुक्त्वाऽस्तनियममाह-- शशाङ्केनोदये वायोः सूर्येणास्तं शुभावहम् । उदये रविणा त्वस्य शशिनास्तं शिवं मतम् ॥६६॥ यत्र दिने शशाङ्केन वायोरुदयस्तत्रास्तं सूर्येण शुभावह, यत्र च सूर्येणोदयस्तत्रास्तं शशाकेन शुभावहम् ॥६६॥ पूर्वोक्तमेवार्थ त्रिभिः श्लोकैविस्तरेणाह १६९१॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy