SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् । ॥६८५।। ततो गुल्फे, ततो जङ्घायां ततो जानुनि, ततोऽप्यूरौ ततो गुदे ॥२८॥ ततो लिगे, ततो नाभौ, ततस्तुन्दे, ततो हृदि, ततः कण्ठे, ततो रसनायां ततस्तालुनि, ततो नासाग्रे, ततो नेत्रयोः, ततो भ्रुवो:, ततो ललाटे, ततः शिरसि ||२९|| एवं रश्मिक्रमेण मनो मरुता सह धारयन् स्थानात् स्थानान्तरं नीत्वा ब्रह्मपुरं नयेत् ॥३०॥ ततस्तैनैवारोहक्रमेण पादाङ्गुष्ठान्तं मनो मरुता सहानयेत्, ततो नाभिपद्ममध्यं नीत्वा वायुं विरेचयेत् ॥३१॥ अथ धारणायाः फलं श्लोकचतुष्टयेनाह पादाङ्गुष्ठादौ जङ्घायां जानूरुगुदमेदने । धारितः क्रमशो वायुः शीघ्रगत्यै बलाय च ॥ ३२ ॥ att ज्वरादिघाताय जठरे कायशुद्धये ॥ ज्ञानाय हृदये कूर्मनाड्यां रोगजराच्छिदे ॥ ३३ ॥ कण्ठे क्षुत्तर्षनोशाय जिह्वा - रससंविदे । गन्धज्ञानाय नासाग्रे रूपज्ञानाय चक्षुषोः ॥३४॥ भाले तद्रोगनाशोय क्रोधस्योपशमाय च । ब्रह्मरन्त्र च सिद्धानां साक्षाद्दर्शनहेतवे ॥ ३५ ॥ पादाङ्गुष्ठे, आदिशब्दात् पाष्ण गुल्फे च, जङ्घायां, जानुनि, ऊरौ, गुदे, मेहने, क्रमेण धारितो वायुः शीघ्रगत्यै बलाय च भवति ||३२|| शेषं सुगमम् ॥ ३३ ।। ३४ ।। ३५ ।। अथ धारणामुपसंहृत्य पवनचेष्टितमाह अभ्यस्य धारणामेवं सिद्धीनां कारणं परम् । चेष्टितं पवमानस्य जानीयाद्गतसंशयः ॥ ३६ ॥ स्पष्टः ।। ३६ ।। तद्यथा पञ्चमः प्रकाशः । ॥६८५॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy