SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् प्रकाशा ॥६८०॥ ननं तत्र द्वाराणि तैर्यों वायोनिरोधः स शान्तः ॥८॥ तथाआपीयोर्वं यदुत्कृष्य हृदयादिषु धारणम् । उत्तरः स समाख्यातो विपरीतस्ततोऽधरः॥९॥ आपीय पीत्वा बाह्यवायुमूर्ध्वमुत्कृष्योन्नीय हृदयादिषु यद्वायोर्धारणं स उत्तरः, ततो विपरीतोऽधरः उर्ध्वदेशादधोनयनरूपः। ननु रेचकादिषु कथं प्राणायामो गतिविच्छेदरूपो हि स उच्यते ? उच्यते--यत्र रेचके कोष्ठयो वायुविरेच्य बहिर्धार्यते तत्रास्ति श्वासप्रश्वासयोर्गतिच्छेदः, यत्रापि पूरके बाह्यो वायुराचम्यान्तर्धार्यते तत्राप्यस्ति श्वासप्रश्वासयोगतिच्छेदः, एवं कुम्भकादिष्वपि ॥९॥ रेचकादीनां फलमाहरेचनादुदरव्याधेः कफस्य च परिक्षयः । पुष्टिः पूरकयोंगेन व्याधिघातश्च जायते ॥१०॥ विकसत्योशु हृत्पनं प्रन्थिरन्तर्विभिद्यते । वलस्थैर्यविवृद्धिश्च कुम्भकाद्भवति स्फुटम् ॥११॥ प्रत्याहारावलं कान्तिपिशान्तिश्च शान्ततः । उत्तराधरसेवातः स्थिरता कुम्भकस्य तु ॥१२॥ श्लोकत्रयं स्पष्टम् ॥१०॥११॥१२॥ न केवलं प्राणायामः प्राणस्यैव जयहेतुः, किन्तु पश्चानामपि वायूनां जयहेतुरित्याहप्राणमपानसमानावुदानं व्यानमेव च । प्राणायामैजयेत् स्थानवर्णक्रियार्थबीजवित् ॥१३॥ ॥६८०॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy