SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ चतुर्थ प्रकाशः ॥६७२।। उक्तस्वरूपे वीरासने सति पृष्ठे वज्राकाराभ्यां दोा पादयोर्यत्राङ्गुष्ठौ गृहणीयात् तद्वज्रासनं इदं योग वेतालासनमित्यन्ये ॥ १२७ ॥ मतान्तरेण वीरासनमाह-- शाखम् II सिंहासनाधिरूढस्यासनापनयने सति । तथैवोवस्थितिय तामन्ये वीरासनं विदुः ॥१२०॥ सिंहासनमधिरूढस्य भूमिन्यस्तपादस्य सिंहासनापनयने सति तथैवावस्थानं वीरासनम् । अन्ये इति सैदान्तिकाः कायक्लेशतपःप्रकरणे व्याख्यातवन्तः । पाताञ्जलास्त्वाहुः--ऊर्ध्वस्थितस्यैकतरः पादो भून्यस्त एकचाकुश्चितजानुरूर्ध्वमित्येतद्वीरासनमिति ॥ १२८ ॥ अथ पद्मासनम्-- जायो मध्यभागे तु संश्लेषो यत्र जङ्घया। पद्मासनमिति प्रोक्तं तदासनविचक्षणः॥१२९॥ जङ्घाया वामाया दक्षिणाया वा द्वितीयया जङ्घया मध्यभागे संश्लेषो यत्र तत् पद्मासनम् ॥१२९॥ अथ-भद्रसनम् | संपुटीकृत्य मुष्काग्रे तलपादौ तथोपरि। पाणिकच्छपिकां कुर्याद्यत्र भद्रासनं तु तत् ॥१३०॥ स्पष्टम् । यत्पातञ्जला:--पादतले वृषणसमीपे संपुटीकृत्य तस्योपरि पाणिकच्छपिकां कुर्यात् , एतद्भद्रासनम् ॥ १३० ॥ अथ दण्डासनम्-- श्लिष्टाङ्गुलीश्लिष्टगुल्फो भूश्लिष्टोरू प्रसारयेत । यत्रोपविश्य पादौ तद्दण्डासनमुदीरितम्॥१३१ ।। स्पष्टम् । यत्पातञ्जला:--उपविश्य श्लिष्टाछगुलीको श्लिष्टगुल्फो भूमिश्लिष्टजनौ च पादौ प्रसार्य दण्डासन ॥६७२॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy