SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥६६५॥ उच्यते — द्वयोरपि प्राधान्यं नान्तरीयकत्वात् । एतदेवाह - सोम्येन विना ध्यानं न ध्यानेन विना च तत् । निष्कम्पं जायते तस्माद्वयमन्योऽन्यकारणम् साम्यं विना न ध्यानं भवति, न च ध्यानं विना साम्यं भवति । एवं तर्दीतरेतराश्रयं ? नैवं साम्यमन्तरेण ध्यानं न भवत्येव, ध्यानं तु विना साम्यं भवदपि निष्कम्पं न भवतीति इतरेतराश्रयदोषाभावः । एवं च सति द्वयमन्योऽन्यस्य हेतुत्वेनावतिष्ठते ॥ ११४ ॥ साम्यं पूर्वमेव व्याख्यातम् इदानीं ध्यानस्य स्वरूपं व्याख्यायते- मुहन्तःस्थैर्ये ध्यानं छमस्थयोगिनाम् । धर्म्यं शुक्लं च तद्वेधा योगरोधस्त्वयोगिनाम्॥ ११५ इह द्वये ध्यातारः -- सयोगा अयोगिनश्च । सयोगा अपि द्विविधा: -- छद्मस्थाः केवलिनश्च । तत्र छद्मस्थयोगिनां ध्यानस्य लक्षणमेतत्, यदुतान्तमुहूर्त्त । कालमेकस्मिनालम्बने चेतसः स्थितिः, यदाह-- उत्तम संहननस्यैका ग्रचित्तनिरोधो ध्यानमान्तर्मुहूर्त्तात् । तच्च छद्मस्थायोगिनां द्वेधा-धर्म्यं शुक्लं च । तत्र धर्मादशविधादनपेतं धर्मेण प्राप्यं वा धर्म्यम् । शुक्लं शुचि निर्मलं सकलकर्ममलक्षय हेतुत्वात् । यद्वा शुगू दुःख तत्कारणं वाऽष्टविधं कर्म शुक्लमयतीति शुक्लं । अयोगिनां तु अयोगिकेवलिनां ध्यानं योगनिरोधः योगानां मनोवाक्कायानां निरोधो निग्रहः । सयोगिकेवलिनां तु योगनिरोधकाल एव ध्यानसंभव इति पृथग् नोक्तं, ते हि देशोनपूर्वकोटिं यावन्म नोवाक्कायव्यापारयुक्ता एव विहरन्ति । अपवर्गकाले तु योगनिरोधं कुर्वन्तीति ॥ ११५ ॥ चतुर्थ प्रकाशः ॥६६५||
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy