SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् प्रकाशा कर्णानां सिंहकर्णानां हस्तिकर्णानां कर्णप्रावरणानामन्तरद्वीपाः ॥ ततोऽष्टौ योजनशतान्यवगाह्य तावदायामविष्कम्भा उल्कामुखानां विद्युज्जिहानां मेष नुखाणां विद्युदन्तानामन्तरद्वीपाः ॥ ततो नव योजनशतान्यवगाह्य तावदायामविष्कम्भा घनदन्तानां गूढदन्तानां श्रेष्टदन्तानां शुद्धदन्तानामन्तरद्वीपाः॥ एतेषु च मनुष्या युग्मप्रसवाः पल्योपमासङ्ख्येयभागायुषोऽष्टधनुःशतोच्चा भवन्ति । तथैरावतक्षेत्रविभागकारिणः शिखरिणोऽपि पूर्वोत्तरादि विदिक्षु अमुनैव क्रमेण नामकलापेन चान्तरद्वीपकानामष्टाविंशतिर्भवति, मिलिताः षट्रपञ्चाशदन्तरद्वीपका भवन्ति ॥ __ मानुषोत्तरात्परतस्तु पुष्करवरद्वीपस्य द्वीतीयममध। पुष्करवरद्वीपात् परतस्तत्परिक्षेपी द्वीपद्विगुणविस्तारः पुष्करोदसमुद्रः । ततो वारुणिवरद्वीपसमुद्रौ, क्षीरवरद्वीपसमुद्रौ, घृतवरद्वीपसमुद्रौ, इक्षुवरद्वीपसमुद्रौ च भवतः । अष्टमो नन्दीश्वरद्वीपः स च चतुरशीतिलक्षोपेतत्रिषष्टिकोटयधिकयोजनकोटिशतप्रमाणवलयविष्कम्भो विविधविन्यासोद्यानवान् देवलोकप्रतिस्पर्धी जिनेन्द्रपूजाव्यापृतदेवसंपातातिरुचिरः स्वेच्छाविविधक्रियादेवसंभोगरम्यः। तत्र तस्य मध्यभागे चतुमषु दिक्षु चत्वारोऽञ्जनगिरयोऽञ्जनवर्णा बाह्यमेरुसमुच्छाया (८४००० योजन) दशयोजनसहखातिरिक्तविस्तारा मृले उपरि २साहसाः । ते च क्रम देवरमणनित्योद्योतस्वयंप्रभरमणीयनामानः । तेषु जिनायतनानि योजनशतायामानि तदर्धविस्ताराणि द्विसप्ततियोजनोच्चानि । तत्त्र षोडशयोजनोच्चानि अष्टयोजनविस्ताराणि अष्टयोजनप्रवेशानि देवासुरनागसुपणाख्यामरनिवासानि तन्नामानि च चत्वारि द्वाराणि, तन्मध्ये मणिपीठिकाः षोडशयोजनायामविस्तारा अष्टयोजनोत्सेधाः तदुपरि देवच्छन्दका साधिकायामोच्चकाः, तेष (१) भूमौ दशयोजनसहसविस्ताराः इत्यपि ज्ञेयम्. (२) सहखयोजनविस्तारा इत्यर्थः । ॥६५१॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy