SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् चतुर्थ प्रकाश ॥६३२॥ रेण भगवतामहतां स्वाख्यातधर्मत्वानुप्रेक्षणमेव, इति धर्माणां गुणभावेन तदाख्यातॄणां भगवतामनुप्रेक्षानिमित्त स्तुतिरिति सर्व समञ्जसम् ॥९३॥ अथास्य धर्मस्य माहात्म्यमाहधर्मप्रभावतः कल्पद्रुमाद्या ददतीप्सितम् । गोचरेऽपि न ते यत्स्युरधर्माधिष्ठितात्मनाम् ॥१४॥ __कल्पद्रुमः कल्पवृक्षः, आदिशब्दाच्चिन्तामण्यादयः परिगृह्यन्ते, ते वनस्पतिरूपा उपलरूपाश्च धर्मवद्भयः सुषमादिकालभाविभ्योऽभीष्टफलदायिनो भवन्ति । ते एव धर्महीनानां दुःषमादिकालभाविनाम् , अस्तामभीष्टं न ददति, गोचरेऽपि न भवन्ति । अत्रार्थप्राप्तिः फलम् ॥९४॥ तथाअपारे व्योसनाम्भोधौ पतन्तं पाति देहिनम् । सदा सविधवाकबन्धुर्धर्मोऽतिवत्सलः ॥९५॥ स्पष्टः । अत्रानर्थपरिहारः फलम् ॥९५॥ तथा-- आप्लावयति नाम्भोधिराश्वासयति चाम्बुदः । यन्महीं स प्रभावोऽयं ध्रुवं धर्मस्य केवलः॥१६॥ अत्रानर्थपरिहारोऽर्थप्राप्तिश्च फलम् ॥९॥ इदानीं साधारणधर्मस्य साधारणं फलमाह न ज्वलत्यनलस्तिर्यग् यदुवं वोति नानिलः । अचिन्त्य महिमा तत्र धर्म एव निबन्धनम्॥९७॥ स्पष्टः । मिथ्यादृशोऽप्याहुः-अग्रे_ज्वलनम् , वायोस्तिर्यक पवनमदृष्टकारितम् इति ॥६७॥ तथा દ્રા
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy