SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम ||६२८॥ पुढ विदगअगणिमारुयवणस्सइवितिचउपगिंदिअज्जीवे । पेहुप्पे उपमज्जणपरिट्ठवणमणेवईकाए ॥१॥ तथा 'ऊनण् परिहाणे' अस्य धातोः सुष्ठु ऊन्यतेऽप्रियमात्राश्रयणं मितीक्रियते इति सून्, सून् च ततं च सूनृतं प्रियं सत्यं च । तच्च पारुष्य - पैशुन्या-सभ्यत्व - चापला - विलत्व - विरलत्व - संभ्रान्तत्व - सन्दिग्धत्वग्राम्यत्व — रागद्वेषयुक्तत्वो - पधावद्य विकत्थनपरिहारेण माधुयौदार्यस्फुटत्वाभिजात्यपदार्थाभिव्याहाराऽर्हद्वचनानुसारार्थत्वार्थिजनभावग्राहकत्व देशका लोपपन्नत्व यतमितति वैयुक्त वाचनप्रच्छनप्रश्नव्याकरणदिरूपमिति मृषावादपरिहाररूपं नृतम् । शौच संयमं प्रति निरुपलेपता । सा चादचादानपरिहाररूपा । लोभार्त्तो हि परधनं जिघृक्षन संयमं मलिन यति । लौकिका अप्याहु: सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् । योऽर्थेषु शुचिः स शुचिर्न मृद्वारिशुचिः शुचिः ||१|| अशुचिर्हि भावकल्मषसंयुक्त इहामुत्र चाशुभं कर्मोपविनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते, इत्यदत्तादान परिहाररूपं शौचम् । नवत्रह्मगुप्तसनाथमुपस्थसयमो ब्रह्म 'भीमो भीमसेनः' इति न्यायाद् ब्रह्मचयं बृहत्त्वाद् ब्रह्मात्मा तत्र चरणं ब्रह्मचर्यमात्माराम तेत्यर्थः । तदर्थं गुरुकुलसेवनमपि ब्रह्मचर्यमित्यब्रह्मनिवृत्तिरूपं ब्रह्मचर्यम् । नास्य किश्चन द्रव्य मस्तीत्यकिञ्चनस्तस्य भावोऽकिञ्चनता । उपलक्षणं चैतत् तेन शरीरधर्मोपकरणादिष्वपि निर्ममत्वमकिञ्चनत्वम् (१) पृथिवीदकाग्निमारुतवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियाजीवाः । प्रेक्षोप्रेक्षाप्रमार्जनपरिष्ठापपनमनोवाक्कायाः ॥ १ ॥ चतुर्थ प्रकाशः १६२८||
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy