SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥६२६ ॥ ROOE43 द्रव्यैर्नवैर्नवैः । अयं न पूर्यते जीवः संवरेण समावृतः ॥ २॥ यथैव सरसस्तोयं संशुष्यति पुरा चितम् । दिवाकरकरालातपातिसन्तापितं मुहुः ||३|| तथैव पूर्वसम्बद्धं सर्वकर्म शरीरिणा । तपसा ताप्यमानं सत् क्षयमायाति तत्क्षणात् ||४|| निर्जराकरणे बाह्याच्छ्रेष्ठमाभ्यन्तरं तपः । तत्राप्येकातपत्रत्वं ध्यानस्य मुनयो जगुः ॥५॥ चिरार्जितानि भूयांसि प्रबलान्यपि तत्क्षणात् । कर्माणि निर्जरन्त्येव योगिनो ध्यानशालिनः ॥६॥ यथौवोपचितो दोषः शोषमायाति लङ्घनात् । तथैव तपसा कर्म क्षीयते पूर्वसञ्चितम् ॥७॥ यथा वा मेघसङ्घाताः प्रच ण्डपवनैर्हताः । इतस्ततो विशीर्यन्ते कर्माणि तपसा तथा ||८|| प्रतिक्षणं सम्भवन्त्यावपि संवरनिर्जरे । प्रकृष्येते यदा मोक्षं प्रसुवाते तदा ध्रुवम् ||९|| निर्जरां निर्जरां कुर्वस्तपोभिद्विविधैरपि । सर्वकर्मविनिर्मोक्षं मोक्षमानोति शुद्धधीः ॥१०॥ एवं तपोभिरभितैः परिचीयमाना, स्यान्निर्जरा सकलकर्मविघातहेतुः । सेतुर्भवोदधि समुत्तरणे ममत्व - व्याघातकारणमतः खलु भावयेत् ताम् ॥११॥ ॥ निर्जराभावना ९॥९१॥ ॥ अथ धर्मस्वाख्यात भावना स्वाख्यातः खलु धर्मोऽयं भगवद्भिर्जिनोत्तमैः । यं समालम्बमानो हि न मज्जेद् भवसागरे ॥ ९२ ॥ सुष्ठु कुतीर्थिकापेक्षया प्राधान्येन, अविधिप्रतिषेधमर्यादया ख्यातः कथितः खलु निश्वयेन धर्मों वक्ष्यमाणलक्षणः, अयं विपश्चितां चेतसि विवर्त्तमानः । कैः ? जिनोत्तमैरवधिजिनादिभ्यः प्रकृष्टैः केवलिभिः । कथम्भूतैः भगवद्भिर्व्याख्यातस्वरूपैरर्हद्भिरिति यावत् । स्वाख्याततामेवाह-यं धर्म समालम्बमानो दुर्गतिपातभयादाश्रयन्, XOOX चतुर्थ प्रकाशः ||६२६॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy