SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ योगशाखम् प्रकाशा ॥६१५॥ अहरहनयमानो गामश्वं पुरुषं पशुम् । वैवस्वतो न तृप्यति सुराया इव दुर्मदी ॥१॥८६।। उभयीमपि निजरां व्याचष्टेज्ञेया सकामा यमिनामकामा वन्यदेहिनाम् । कर्मणां फलवत् पाको यदुपायाम् स्वतो पि हि।८७॥ सकामा निर्जराऽभिलाषवती यमिनां यतीनां विज्ञेया । ते हि कर्मक्षयार्थ तपस्तप्यन्ते । अकामा तु कर्मक्षय लक्षणफलनिरपेक्षा निर्जराऽन्यदेहिनां यतिव्यतिरिक्तोनामेकेन्द्रियादीनां प्राणिनाम् , तथाहि-एकेन्द्रियाः पृथिव्यादयो वनस्पतिपर्यन्ताः शीतोष्णवर्षाजलाग्निशस्त्राद्यभिधातच्छेदभेदादिनाऽसद्वेद्यं कर्मानुभूय नीरसं कर्म स्वदेशेभ्यः परिशाटयन्ति । विकलेन्द्रियाश्च क्षुत्पिपासाशीतोष्णादिभिः, पञ्चेन्द्रियतिर्यञ्चश्च छेदभेददाहशस्त्रादिभिः, नारकाच त्रिविधया वेदनया, मनुष्याश्च क्षुत्-पिपासा-व्याधि-दारिद्रयादिना, देवाश्च पराभियोग-किल्विषत्वादिनाs कर्मानुभूय स्वप्रदेशेभ्यः परिशाटयन्ति । इत्येषामकामा निर्जरा । ननु सकामत्वाकामत्वस्वरूपेण निर्जराया द्वैविध्यं कुत्र दृष्टम् ? इति प्रश्ने स्पष्टं दृष्टान्तमाह-कर्मणामसवेद्यादीनां फलवत् फलानामिव यद् यस्मात् पाक उपायाद् निवातप्रदेशपलालाच्छादनादिरूपात् स्वतोऽपि वा वृक्षस्थानामेव । तदेवं यथा फलानां पाकस्य स्वत उपायतश्च द्वैविध्य दृश्यते तद्वत् कर्मणामपि, इत्युक्तम्-सकामा कामवर्जिता च निर्जरा इति । ननु फलपाकस्य द्वैविध्ये कर्मणां पाकस्य किमायातम् १ नवम् , पाकस्य निर्जरारूपत्वात् । ततो यथा फलपाको द्वेधा भवति तथा कर्मनिर्जरापि ॥८॥ ॥६१५॥ -
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy