SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ चतुर्थ योगशास्त्रम् प्रकाशा ॥६०१॥ मत्यायतम् । ज्ञात्वैवं ममतानिरासविधये ध्यायन्तु शुद्धाशया अश्रान्तं भवभावनां भवभयच्छेदोन्मुखत्वं यदि ॥९॥ ॥ संसारभावना ३॥ ६७ ॥ अथैकत्वभावनां श्लोकद्वयेनाहएक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः प्रचितानि भवान्तरे ॥६॥ एकोऽसहाय उत्पद्यते शरीरसम्बन्धमनुभवति जन्तुः प्राणी, विपद्यते शरीरेण वियुज्यते, कर्माणि ज्ञानावरणीयादीनि भवान्तरे पूर्वजन्मनि प्रचितानि कृतानि अनुभवति वेदयते, भवान्तरग्रहणमुपलक्षणम्, इहजन्मकृतानामप्यनुभवात्, यदाहुर्भगवन्तः;-१परलोअकडा कम्मा इहलोए वेइज्जति, इहलोअकडा कम्मा इहलोए वेइन्जति ॥ ६८ ॥ तथाअन्यैस्तेनार्जितं वित्तं भूयः संभूय भुज्यते । स त्वेको नरककोडे क्लिश्यते निजकर्मभिः॥१९॥ तेनैकेन जन्तुनाऽजितं महारम्भपरिग्रहादिनोपार्जितं वित्तमन्यैः सम्बन्धिबन्धुभृत्यप्रभृतिभिः सम्भूय मिलित्वा भूयः पुनः पुनर्भुज्यते वित्तस्य विनियोगः क्रियते । स तु वित्तस्यार्जयिता एको भोक्तृलोकविरहितो नरकक्रोडे नरकोत्सङ्गे क्लिश्यते वाध्यते निजकर्मभिर्धनार्जनकालप्रचितैः पापकर्मभिः ।। अत्रान्तरश्लोकाः दुःखदावाग्निभीष्मेऽस्मिन् वितते भवकानने। बम्भ्रमीत्येक एवासौ जन्तुः कर्मवशीकृतः॥१॥ ननु जीवस्य (१) परलोककृताति कर्माणि इहलोके वेद्यन्ते । इहलोके कृतानि कर्माणि इहलोके वेद्यन्ते ।। ।६०१॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy