SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥५६६॥ 50386 मृत्युपदमार्जवं ब्रह्मणः पदम् । एतावाव्ज्ञानविषयः प्रलापः किं करिष्यति १ ॥ २ ॥ इति ॥ भवेयुरार्जवजुषो लोकेऽपि प्रीतिकारणम् । कुटिलादुद्विजन्ते हि जन्तवः पन्नगादिव ||३|| अजिह्मचित्तवृत्तीनां भववासस्पृशामपि । अकृत्रिमं मुक्तिमुखं स्वसंवेद्यं महात्मनाम् ||४|| कौटिल्यशकुना क्लिष्टमनसां वञ्चकात्मनाम् । परव्यापादनिष्ठानां स्वप्नेऽपि स्यात् कुतः सुखम् ।। ५ ।। समग्रविद्यावैदुष्येऽधिगतासु कलासु च । धन्यानामुपजायेत बालकानामिवार्जवम् ||६|| अज्ञानामपि बालानामार्जवं प्रीतिहेतवे । किं पुनः सर्वशास्त्रार्थपरिनिष्ठितचेतसाम् ? ॥ ७ ॥ स्वाभाविकी हि ऋजुता कृत्रिमा कुटिलात्मता । ततः स्वाभाविकं धर्मं हित्वा कः कृत्रिमं श्रयेत् ? ॥ ८ ॥ छलपैशुन्यवक्रोक्तिवञ्चनाप्रवणे जने । धन्याः केचिद् निर्विकाराः सुवर्णप्रतिमा इव ॥ ९ ॥ श्रुताधिपारप्राप्तोऽपि गौतमो गणभृद्वरः। अहो ! शैक्ष इवाश्रौषीदाजवाद् भगवद्भिरः ॥ १० ॥ अशेषमपि दुष्कर्मऋज्वालोचनया क्षिपेत् कुटिलालोचनां कुर्वन्नल्पीयोऽपि विवर्धयेत् ।। ११ ।। काये वचसि चित्ते च समन्तात् कुटिलात्मनाम् । न मोक्षः किन्तु मोक्षः स्यात् सर्वत्राकुटिलात्मनाम् ॥ १२ ॥ इति निगदितमुग्रं कर्म कौटिल्यभाजा - मृजुपरिणतिभाजां चानवद्यं चरित्रम् । तदुभयमपि बुद्धया संस्पृशन् मुक्तिकामो, निरुपममृजुभावं संश्रयेच्छुद्धबुद्धिः ॥ १३ ॥ १७ ॥ इदानीं लोभकषायस्वरूपमाह - आकरः सर्वदोषाणां गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां लोभः सर्वार्थबाधकः ॥ १८ ॥ आकरः खानिः सर्वदोषाणां प्राणातिपातादीनां 'लोहादीनामिव' इति गम्यते, गुणानां ज्ञानादीनां प्राणिनामिव यद् ग्रसनं कववलनं तत्र राक्षस इव राक्षसः, तथा कन्दो मूलाधोऽवयवः, कासां व्यसनवल्लीनां चतुर्थ प्रकाशः ॥५६६॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy