SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥५३४ ।। कालधर्ममुपायौ ॥ ६४॥ सोऽरूणाभे विमानेऽभूद् चतुष्पल्यस्थितिः सुरः । स्युत्वा ततो विदेहेषूत्पद्य सिद्धिं जिष्यति ॥ ६५ ॥ यथोपसर्गेऽपि निसर्गधैर्यात स कामदेवो व्रततत्परः सन् । श्लाघ्योऽभवत् तीर्थकृतां तथाऽन्येऽप्येवंविधा धन्यतमाः पुमांसः ||६६ || १३९ ॥ ॥ इति कामदेवकथानकं सपूर्णम् ॥ इदमपि निद्राच्छेदे चिन्तयेत् — जिनो देवः कृपा धर्मो गुरवो यत्र साधवः । श्रावकत्वाय कस्तस्मै न श्लाघेताविमूढधीः १ ॥ १४० ॥ श्रावका उक्तनिर्वचनास्तेषां भावः श्रावकत्वं तस्मै श्रावकत्वाय को न श्लाघेत ? सर्वः श्लाघेतैव, मुक्त्वा मोहमूढान् । अत एवाह - अविमूढधीः; मूढबुद्धीनां ह्यतश्वदर्शिनां तैमिरिकाणामिव चन्द्रद्वितय- शङ्खपीतिमदर्शिनां या भूत् श्रावकत्वाय श्लाघा, अमूढबुद्धयस्तु तत्त्वदर्शित्वात् श्लाघन्त एव । तस्मै इति तत्संबन्धिनं यच्छन्दमाह — यत्र श्रावकत्वे जिनो रागादिदोषजेता देवः पूज्यो न तु रागादिमान्, कृपा दुखितदुःखप्रहाणेच्छा धर्मोऽनुष्ठेयरूपो न तु हिंसात्मको यागादिः साधवः पञ्चमहाव्रतरताः गुरखो धर्मोपदेष्टारो न तु परिग्रहारम्भसक्ताः ॥१४०॥ तथा निद्राच्छेदे तांस्तान् मनोरथान् सप्तभिः श्लोकैगह जिनधर्म विनिर्मुक्तो मा भूर्वं चक्रवर्त्यपि । स्यां चेटोऽपि दरिद्रोऽपि जिनधर्माधिवासितः ॥ १४१ ॥ 9 तृतीय प्रकाशः ||५३४॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy