SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ५०० अथ प्रथम एव मुहूर्त्त इति कुतो लभ्यते ? । सूत्रप्रामाण्यात्, पौरुषीवत् । सूत्रं चेदम्उग्गए सूरे नमोकारसहिअ पच्चक्खाइ चउब्विहं पि आहारं असणं पाणं खाइमं साइमं अण्णत्थणाभोगेणं सहसागारेण वोसिरइ । व्याख्या - उद्गते सूरे सूर्योद्गमादारभ्येत्यर्थः, नमस्कारेण परमेष्ठिस्तवेन सहितं युक्तं नमस्कारसहितं प्रत्याख्याति, “सर्वे धातवः करोत्यर्थेन व्याप्ताः इतिन्यायाद् नमस्कारेण सहितं प्रत्याख्यानं करोति । इदं गुरोरनुवादभङ्गया वचनम् । शिष्यस्तु 'प्रत्याख्यामि' इत्येतदाह । एवं 'व्युत्सृजति' इत्यत्रापि वाच्यम् । कथम् ? चतुर्विधमिति, न पुनरेकविधादिकम्, आहारमभ्यवहार्ये 'व्युत्सृजति' इत्युत्तरेण योगः । इदं चतुर्विधाहारस्यैव भवतीत संप्रदायः, रात्रिभोजनव्रततीरणप्रायत्वादस्य । अशनमित्याद्याहारधाचातुविंध्य कीर्तनम् । अशनादय आहाराः पूर्वं व्याख्याताः । अत्र नियमभङ्गभयादाकारावाह- अण्णत्थणाभोगेणं सहसागारेण, अत्र पञ्चम्यर्थे तृतीया, अन्यत्रानाभोगात् सहसाकाराच्च, एतौ वर्जयित्वेत्यर्थः । तत्रानाभोगोऽत्यन्तविस्मृतिः । सहसाकारोऽतिप्रवृत्तयोगानिवर्तनम् । व्युत्सृजति परिहरति । अथ पौरुषी प्रत्याख्यानम् - पौरिसि पञ्चख्खाइ उगए सूरे चउब्विहं पि आहारं असणं पाणं खाइम साइमं अण्णत्थणाभोगेण सहसा गारेण पच्छन्नेणं काळेणं दिसामोहेणं साहुवयणेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ || पुरुषः प्रमाणमस्याः पौरूषी छाया तद्युक्तः कालोऽपि पौरुषी प्रहर इत्यर्थः, तां प्रत्याख्याति पौरूषी प्रत्याख्यानं COOKER Doho तृतीय प्रकाशः ॥५००॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy