SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥४८९ ॥ १ विणओवयारमाणस्स भजणा पूअणा गुरुजणस्स । तित्थयराण य आणा सुअधम्माराहणाकिरिआ ॥ १ ॥ अथ प्रतिक्रमणं - प्रतीत्युपसर्गः प्रतीपे प्रातिकूल्ये वा, क्रमू पादविक्षेपे, अस्य प्रतिपूर्वस्य भावानडन्तस्य प्रतीपं क्रमणं प्रतिक्रमणम्, अयमर्थः -शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव क्रमणात् प्रतीपंक्रमणम्, यदाह, — स्वस्थानाद् यत् परस्थानं प्रमादस्य वशाद् गतः । तत्रैव क्रमणं भूयः प्रतिक्रमणमुच्यते ॥ १ ॥ प्रतिकूलं वा गमनं प्रतिक्रमणम्, यदाह, क्षायोपशमिकाद् भावादौदयिकवशं गतः । तत्रापि च स एवार्थः प्रतिकूलगमात् स्मृतः ॥ १ ॥ प्रति प्रतिक्रमणं वा प्रतिक्रमणम्, उक्तं च प्रति प्रतिप्रवर्तन वा शुभेषु योगेषु मोक्षफलदेषु । निःशल्यस्य यतेर्यत् तद् विज्ञेयं प्रतिक्रमणम् ॥ १ ॥ तच्चातीतानागतवर्तमान कालत्रयविषयम् । नन्वतीतविषयमेव प्रतिक्रमणम् यत उक्तम्, -- “ २अइयं पडिकमामि, पप्पनं संवरेमि, अणागयं पच्चक्खामि' इति तत् कथं त्रिकालविषयता ? । उच्यते-अत्र प्रतिक्रमणशब्दोऽशुभयोगनिवृत्तिमात्रार्थः- ३मिच्छत्तपडिकमणं तदेव अस्संजमे पडिकमणं । कसायाण पडिकमण जोगाण य अप्पसत्थाणं ॥ १ ॥ (१) विनयोपचारमानस्य भजना पूजना गुरुजनस्य । तीर्थकराणां चाज्ञा श्रुतधर्माराधनाक्रिया ॥ १ ॥ (२) अतीत प्रतिक्रमामि प्रत्युत्पन्न संवृणोमि, अनागतं प्रत्याख्यामि । (३) मिथ्यात्वप्रतिक्रमणं तथैवासंयमे प्रतिक्रमणम् । कषायाणां प्रतिक्रमणं योगानां चाप्रशस्तानाम् ॥ १ ॥ तृतीय प्रकाशः musi
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy