SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥४५७॥ सामीप्येन तदपराभिन्नदेशतया निःशेषकर्मक्षयपूर्वकं गताः प्राप्ताः । उक्तं च १ जत्थ य एगो सिद्धो तत्थ य अनंता भवक्खयविमुक्का । अण्णोष्णमणाबाहं चिट्ठति सुही सुई पत्ता ॥१॥ तेभ्यः । ननु क्षीणकर्मणो जीवस्य कथं लोकाग्रं यावद्गतिः ? उच्यते-- पूर्वप्रयोगादियोगात् । यदाह — पूर्वप्रयोगसिद्धेर्बन्धच्छेदादसङ्गभावाच्च । गतिपरिणामाच्च तथा सिद्धस्योर्ध्वं गतिः सिद्धा ॥ १ ॥ ननु सिद्धिक्षेत्रात्परतोऽधस्तिर्यग्वा कस्मान्न गच्छन्ति ?, अवाऽप्युक्तम् नाऽधो गौरवविगमादसङ्गभावाच्च गच्छति विमुक्तः । लोकान्तादपि न परं लवक इवोपग्रहाभावात् ॥ १ ॥ यो प्रयोगयोश्चाभावात्तिर्यग् न तस्य गतिरस्ति । तस्मात्सिद्धस्योर्ध्वं ह्यालोकान्ताद्गतिर्भवति ॥ २ ॥ इति ॥ नमः सदा सर्वसिद्धेभ्यः – नमो नमोऽस्तु, सदा सर्वकाल, सर्वसिद्धेभ्यः -- सर्वं साध्य सिद्धं येषां ते सर्वसिद्धाः तेभ्यः, अथवा सर्वसिद्धेभ्यः तीर्थसिद्धादिभेदेभ्यः, यथोक्तम् -- २तित्थसिद्धा १ अतित्थसिद्धा २ तित्थयरसिद्धा ३ अतित्थयरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहिअसिद्धा ७ थीलिङ्गसिद्धा ८ पुरिसलिङ्गसिद्धा ९ नपुंसकलिङ्गसिद्धा १० सलिङ्गसिद्धा ११ अन्नलिङ्गसिद्धा १२ गिहिलिङ्गसिद्धा १३ एगसिद्धा १४ १ यत्र चैकः सिद्धास्तत्र चानन्ता भवक्षयविमुक्ताः अन्योन्यमनाबाधं तिष्ठन्ति सुखिनः सुखं प्राप्ताः ॥ १ ॥ २ तीर्थसिद्धाः, अतीर्थसिद्धाः, तीर्थकरसिद्धाः, अतीर्थकर सिद्धाः, स्वयंबुद्धसिद्धाः, प्रत्येकबुद्धसिद्धाः, बुद्धबोधितसिद्धाः, स्त्रीलिङ्गसिद्धाः, पुरुषलिङ्ग सिद्धाः, नपुंसकलिङ्गसिद्धाः, स्वलिङ्गसिद्धाः, अन्यलिङ्गसिद्धाः, गृहिलिङ्गसिद्धाः, एकसिद्धाः, अनेकसिद्धाः, ESOMENE तृतीय प्रकाशः ॥४५७॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy